आश्वमेधिकपर्व

अध्यायः १०५

Aswamedhika Parva (Sanskrit) · Adhyaya 105
अक्षर का आकार

वैशम्पायन उवाच।

दानपुण्यफलं श्रुत्वा तपःपुण्यफलानि च।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्।।

या चैषा कपिला देव पूर्वमुत्पादिता विभो।
होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव।।

सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा।
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा।।

कथिता कपिला प्रोक्ता स्वयमेव स्वयंभुवा।
कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्वतः।।

वैशम्पायन उवाच।

एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि।
अब्रवीत्कपिलासङ्क्यां तासां माहात्म्यमेव च।।

शृणु पाण्डव तत्वेन पवित्रं पावनं परम्।
यच्छ्रुत्वा पापकर्मा पि नरः पापात्प्रमुच्यते।।

अग्निमद्योद्भवां दिव्यामग्निज्वालासमप्रभाम्।
अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम्।।

अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम्।
तामग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम्।।

भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः।
पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते।।

न तेषां ब्राह्ममः कश्चिद्गृहे कुर्यात्प्रतिग्रहम्।
दूराच्च परिहर्तव्या महापातकिनोपि ते।।

सार्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः।
ते सदा ह्यप्रतिग्राह्या ह्यसंभाष्याश्च पापिनः।।

पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः।
अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत्।।

कपिलाया दधि क्षीरं घृतं तक्रमथापि वा।
ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु।।

कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम्।
क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन्।।

ततश्चापि च्युतः कालाच्छ्वानयोनिं स गच्छति।
श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः।।

विष्ठाकूपेषु पापिष्ठो दुर्गन्धेषु सहस्रशः।
तत्रतत्रोपजायेत नोत्तारं तत्रथ विन्दति।।

ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम्।
ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः।।

न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत्।
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः।।

यस्तेन सह सम्भाषेदेकशय्यां व्रजेत् वा।
प्राजापत्यं चरेत्कृच्छ्रं स च तेन विसुद्ध्यति।।

कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम्।
प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः।।

ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा।
मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः।।

कपिला ह्यग्निहोत्रार्थे विप्रार्थे वा स्वयंभुवा।
सर्वं तेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा।।

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्।
पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन।।

तपसा तप एवाग्र्यं व्रातनामुत्तमं व्रतम्।
दानानां परमं दानं निदानं ह्येतदक्षयम्।।

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च।
पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव।।

एभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा।।
लोकनिस्तरणायैव निर्मिताः कपिलाः स्वयम्।।

सर्वतेजोमयी ह्येषां कपिला पाण्डुनन्दन।
सदाऽमृतमयी मेध्या शुचिः पावनमुत्तमम्।।

क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा।
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः।।

कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः।
जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो।।

पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः।
शूद्रान्नाद्विरता नित्यं डंभानृतविवर्जिताः।।

ते यान्त्यादित्यसङ्काशैर्विमानैर्द्विजसत्तमाः।
सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम्।।

ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः।
ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम्।।

एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः।
आदावेवाग्निमध्ये तु मैत्रेयी ब्रह्मनिर्मिता।।

शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव।
ब्रह्मणो हि नियोगेन निवसन्ति दिनेदिने।।

प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात्।
यश्च्युतामंबुधारां वै शिरसा प्रयतः शुचिः।।

स तेन पुण्यतीर्थेन सहसा हतकिल्विषः।
जन्मत्रयकृतं पापं प्रदहत्यग्निवतृणम्।।

मूत्रेण कपिलायास्तु यश्च प्राणानुपस्पृशेत्।।
स्नानेन तेन पुण्येन नष्टपापः स मानवः।
त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः।।

प्रातरुत्थाय यो भक्तया प्रयच्छेत्तृणमुष्टिकम्।
तस्य नश्यति तत्पापं त्रिंशद्रात्रकृतं नृप।।

प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्मात्प्रदक्षिणम्।
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः।।

प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव।
दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम्।।

कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः।
स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव।।

तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पार्थिव।
दशरात्रकृतं पापं तत्क्षणादेव नश्यति।।

दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्वनम्।
व्यपोहति नरः पापमहोरात्रकृतं नृप।।

यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः।
संवत्सरकृतं पापं विनाशयति पाण्डव।।

गोसहस्रं तु यो दद्यादेकां च कपिलां नरः।
समं तस्य फलं प्राह ब्रह्मा लोकपितामहः।।

यस्त्वेवं कपिलां हन्यान्नरः कश्चित्प्रमादतः।
गोसहस्रं हतं तेन भवेन्नात्र विचारणा।।

यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये।
गवां शतसहस्रं तु दत्तं भवति पाण्डव।।

दश वै कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा।
यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु।।

प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला।
तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला।।

पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला।
सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला।।

नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला।
दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा।।

मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः।
एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर।।

ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथंचन।
न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः।।

वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया।
न दण्डेन न वा यष्ट्या न पाशेन न वा पुनः।।

न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान्।
अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम्।।

शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः।
अह्नां पूर्वत्र भागे च धुर्याणां वाहनं स्मृतम्।।

विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम्।
यत्र च त्वरया कृत्यं संशयो यत्र वाऽध्वनि।

वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते।।
भ्रूणहत्यासमं पापं तस्य स्यात्पाण्डुनन्दन।

अन्यथा वाहयन्राजन्निरयं याति रौरवम्।।
रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप।

तेन पापेन पापात्मा नरकं यात्यसंशयम्।।
नरकेषु च सर्वेषु समाः स्थित्वा शतंशतम्।

इह मानुष्यके लोके बलीवर्दो भविष्यति।।
तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः।।

कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः।
तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः।।

स देवैः पितृभिर्नित्यं वध्यमानस्तु दुर्मतिः।
नरकान्नरकं घोरं गच्छेदाप्रलयं नृप।।

ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः।
तस्मात्ते न निहन्तव्याः पूज्याश्चैव न संशयः।
निःश्वसन्ति यदा श्रान्तास्तदा हन्युस्च तत्कुलं।।

यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप।
नरकेषूपपच्यन्ते तत्र तद्वाहका नराः।।

कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते।
तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः।।

होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः।
श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे।
तेन दानेन पूतात्मा मम लोके महीयते।।

यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते।।

सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति।
विषुवे चायने चापि सोऽश्वमेधफलं लभेत्।
तेनाश्वमेधतुल्येन मम लोकं स गच्छति।।

स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम्।
वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम्।।

पवित्रं हि पवित्राणां सुरव्णमिति मे मतिः।
तस्मात्सुवर्णाभरणा दातव्या साऽग्निहोत्रिणे।।

एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि।
तारयिष्यति राजेन्द्र नात्र कार्या विचारणा।।

अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम्।
वाजपेयसहस्रस्य अश्वमेधं च तत्समम्।
अश्वमेधसहस्रस्य राजसूयं च तत्समम्।।

कपिलानां सहस्रेण विदिदत्तेन पाण्डव।
राजसूयफलं प्राप्य मम लोके महीयते।
न तस्य पुनरावृत्तिर्विद्यते कुरुपुङ्गव।।

प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम्।
सुवर्णकुरशृङ्गाङ्गीं सर्वालङ्कारशोभिताम्।।

दत्ता हि गौस्तारयते मनुष्यम्।।

पुत्रांश्च पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते यथावत्।
यावन्मनुष्यान्पृथिवी बिभर्ति
तावत्प्रदातारमृतं परत्र।।

यथौषधं मन्त्रकृतं नरस्य
प्रयुक्तमात्रं विनिहन्ति रोगान्।
तथैव दत्ता कपिला सुपात्रे
पापं नरस्याशु निहन्ति सर्वम्।।

यथैव दृष्ट्वा भुजगाः सुपर्णं
नश्यन्ति दूराद्विवशा भयार्ताः।
तथैव दृष्ट्वा कपिलाप्रदाना-
न्नस्यन्ति पापानि नरस्य शीघ्रम्।।

यथा त्वचं वै भुजगो विहाय
पुनर्नवं रूपमुपैति पुण्यम्।
तथैव मुक्तः पुरुषः स्वपापै-
र्विरज्यते वै कपिलाप्रदानात्।।

यथाऽन्धकारं भवने विलग्नं
दीप्तो हि निर्यातयति प्रदीपः।
तथा नरः पापमपि प्रलीनं
निष्क्रामयेद्वै कपिलाप्रदानात्।।

यावन्ति रोमाणि भवन्ति तस्या
वत्सान्वितायाश्च शरीरजानि।
तावत्प्रदाता युगवर्षकोटिं
स ब्रह्मलोके रमते मनुष्यः।।

यस्याहिताग्नेरतिथिप्रियस्य
शूद्रान्नदूरस्य जितेन्द्रियस्य।
सत्यव्रतस्याध्ययनान्वितस्य
दत्ता हि गौस्तारयते परत्र।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः।।