आश्वमेधिकपर्व
अध्यायः १०४
युधिष्ठिर उवाच।
विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः।
अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी।।
भगवानुवाच।
शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः।
न तु सर्वस्य भूतस्य पञ्चत्वं विद्यते नृप।।
पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम्।
तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तम।।
पञ्चत्वं पञ्चभिर्भूतैर्वियोगं संप्रचक्षते।
न जायते न म्रियते पुरुषः शाश्वतः सदा।।
प्रायेण मरणं नाम पापिनामेव पाण्डव।
येषां तु न गतिः पुण्या तेषां मरणमुच्यते।।
प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः।
कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्।।
युधिष्ठिर उवाच।
पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः।
तेषां नाम च देवेश वक्तुमर्हस्यशेषतः।।
श्रीभगवानुवाच।
शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर।
यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना।।
ऋभुजज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव।
नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते।।
तर्पणं ऋभुयज्ञः स्यात्स्वाध्यायो ब्रह्मयज्ञकः।
भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम्।
पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः।।
हुतं चाप्यहुतं चैव तथा प्रहुतमेव च।
प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते।।
वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः।
अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम्।।
प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः।
बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः।।
केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते।
अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः।।
सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः।
बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत्।।
अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम्।
केवलं मलमश्नन्ति ते नार न च संशयः।।
तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिनेदिने।
अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्ती भवेद्द्विजः।।
युधिष्टिर उवाच।
देवदेवेशक दैत्यघ्न त्वद्भक्तस्य जनार्दन।
वक्तुमर्हसि देवेश स्नानस्य च विधिं मम।।
भगवानुवाच।
शृणु पाण्डव तत्सर्व पवित्रं पापनाशनम्।
स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः।।
मृदं च गोमयं चैव तिलं दर्भांस्तथैव च।
पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत्।।
नद्यां स्नात्वा न च स्नायदन्यत्र द्विजसत्तम।
सति प्रभूते पयसि नाल्पे स्नायात्कदाचन।।
गत्वोदकसमीपं तु शुचौ देशे मनोरमे।
ततो मृद्गोमयादीनि तत्र विप्रो विनिक्षिपेत्।।
बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः।
प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम्।।
न च प्रक्षालयेद्विद्वांस्तीर्थमद्भिः कदाचन।
न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम्।।
सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन।
तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलं।।
केवलं प्रथमं मज्जेन्नाङ्गानि विमृशेद्बुधः।
तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः।।
गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम्।
द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः।
शीर्षण्यांस्तु ततः प्राणान्सकृदेवतु संस्पृशेन।।
बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च।
प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत्।।
आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत्।
सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम्।।
आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत्।
ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम्।
आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः।।
स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु।
मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम्।।
गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत्।
सव्याहृतीकां सप्रणवां गायत्रीं च जपेत्पुनः।।
पुनराचमनं कृत्वा मद्गतेनान्तरात्मना।
आपोहिष्ठेति तिसृभिर्ऋग्भिः पूतेन वारिणा।
तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात्।।
गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेणि चात्मनः।
वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः।।
वामदैव्येन चात्मानमन्यैर्मन्मयसामभिः।
स्थित्वाऽन्तःसलिले सूक्तं जपेद्वाचाऽघमर्षणं।।
सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत्।
आश्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन्।।
उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी।।
शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके।।
पाशेन बद्ध्वा कक्षे यत्कुरुते कर्म वैदिकम्।
राक्षसा दानवा दैत्यास्तद्विलुंपन्ति हर्षिताः।
तस्मत्सर्वप्रयत्नेन कक्ष्यापाशं न धारयेत्।।
ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः।
आचम्य पुनराचामेत्पुनः सावित्रिया द्विजः।।
प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः।
जले जलगतः शुद्धः स्थल एव स्थलस्थितः।
उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये।।
दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः।
प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना।।
सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत्।।
समाहितो जपेत्तस्मात्सावित्र्या चाभिमन्त्र्य च।
मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम्।।
उद्वर्गोसीत्यथा चान्तःप्रायश्चित्तजलं क्षिपेत्।।
अथादाय सुपुष्पाणि तोयमञ्जलिना द्विजः
प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत्।।
ततो द्वादशकृत्वस्तु सूर्यस्येकाक्षरं जपेत्।
ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत्।।
प्रदक्षिणं परामृश्य मुद्रया स्वमुखान्तरे।
ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः।।
तन्मण्डलस्थं मां ध्यायंस्तोजोमूर्तिं चतुर्भुजम्।
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि।।
सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम्।
मन्मयानि च सामानि पुरुषव्रतमेव च।।
ततश्चालोकयेदर्कं हंसः शुचिषदित्यपि।
प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम्।।
ततस्तु तर्पयेदद्भिर्ब्रह्म्णां मां च शङ्करम्।
प्रजापतिं च देवांश्च तथा देवमुनीनपि।।
साङ्गानपि तथा वेदानितिहासान्क्रतूनपि।
पुराणानि च सर्वाणि कुलान्यप्सरसां तथा।।
क्रतून्संवत्सरं चैव कलाकाष्ठात्मकं तथा।
भूतग्रामांश्च भूतानि सरितः सागरांस्तथा।
शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः।।
तर्पयेदुपवीती च प्रत्येकं तृप्यतामिति।
अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु।।
निवीती तर्पयेद्विद्वानृषीन्मन्त्रकृतस्तथा।
मरीच्यादीनृषींश्चैव नारदाद्यान्समाहितः।।
प्राचीनावीत्यथैतास्तु तर्पयेद्देवताः पितॄत्।
ततस्तु कव्यवाडग्निं सों वैवस्वतं तथा।।
ततश्चार्यमणं चापि ह्यग्निष्वात्तांस्तथैव च।
सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः।
तृप्यतामिति पश्चात्तु स पितॄंस्तर्पयेत्ततः।।
पितॄन्पितामहांश्चैव तथैव प्रपितामहान्।
पितामहीस्तता चापि तथैव प्रपितामहीः।।
मातरं चात्मनश्चैव गुरुमाचार्यमेव च।
पितृमातृष्वसारौ च तथा मातामहीमपि।।
उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिबांधवान्।
प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः।।
तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत्।
वृत्तिं भृत्यजनस्याहुः स्नानं पानं च तद्विदः।।
अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत्।
पीडयेच्चेत्पुरा मोहाद्देवाः सर्पिगणास्तथा।
पितरस्तु निराशास्ते शप्त्वा यान्ति यथागतं।।
प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः।
दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत्।।
वेदमादौ समारभ्य ततोपर्युपरि क्रमात्।
यदधीतेऽन्वहं शक्त्या तत्स्वाध्यायं प्रचक्षते।।
ऋचो वाऽपि यजुर्वाऽपि सामगायमथापि च।
इतिहासपुराणानि यथाशक्ति न हापयेत्।।
उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि।
ब्रह्मणं च ततश्चाग्निं पृथिवीमोषधीस्तथा।।
वाचं वाचस्पतिं चैव मां चैव सरितस्तथा।
नमस्कृत्य तथाऽद्भिस्तु प्रणवादि च पूर्ववत्।।
ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम्।
घृणिः सूर्यस्तथाऽऽदित्यस्तं प्रणम्य स्वमूर्धनि।।
ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः।
ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः।।
युधिष्ठिर उवाच।
त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव।
सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत।।
भगवानुवाच।
शृणुष्वावहितो राजन्पुष्पाणि प्रियकृन्ति मे।
कुमुदं करवीरं च चणकं चंपकं तथा।।
मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम्।
पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च।।
वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः।
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम्।।
तस्मात्पद्मं तथा राजन्पद्मात्तु सतपत्रकम्।
तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम्।।
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका।
बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम्।
सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव।।
पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेत्पुनः।
पत्रालाभे तु शाखाभिः शाकालाभे शिफालवैः।
शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम्।।
वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः।
किङ्किणी मुनिपुष्पं च धुर्धूरं पाटलं तथा।।
तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम्।
यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा।।
कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च।
ककुभाः कोविदाराश्च वैभीतकमथापि च।।
कुरण्टकप्रसूनं च कल्पकं कालकं तथा।
अङ्केलं गिरिकर्णी च नीलान्येव च सर्वशः।
एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत्।।
अर्कपुष्पाणि वर्ज्यानि अर्कपत्रस्तितानि च।
व्याघृताः पिचुमन्दानि सर्वाण्येव विवर्जयेत्।।
अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप।
अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत्।।
युधिष्ठिर उवाच।
कथं त्वमर्चनीयोसि मूर्तयः कीदृशास्तु ते।
वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः।।
भगवानुवाच।
शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः।
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम्।।
अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः।
वैदिकैरथ मन्त्रैश्च मम सूक्तेन वा पुनः।।
स्थापितं मां ततस्तस्मिन्नर्ययित्वा विचक्षणः।
पुरुषं च ततः सत्यमत्युतं च युधिष्टिर।।
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः।
अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः।
वासुदेवं च राजेन्द्र संकर्षणमथापि वा।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते।।
एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः।
विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्भुधः।।
युधिष्ठिर उवाच।
त्वद्भक्ताः कीदृसा देव कानि तेषं व्रतानि च।
एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत।।
भगवानुवाच।
अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः।
मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः।।
स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः।
मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत्।।
नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे।
स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत्।।
प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम्।
न धावेत्पतिते वर्षे नाग्नभिक्षां च लोपयेत्।।
प्रत्यक्षलवणं नाद्यत्सौभाञ्जनकरञ्जनौ।
ग्रासमुष्टिं गवपे दद्याद्धान्याम्लं चैव वर्जयेत्।।
तथा पर्युषितं चापि पक्वं परगृहागतम्।
अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत्।।
विभितककरञ्जानां छायां दूरे विवर्जयेत्।
पिप्रदेवपरीवादान्न वदेत्पीडितोपि सन्।।
सात्विका राजसाश्चापि तामसाश्चापि पाण्डव।
मामर्चयन्ति मद्भक्तास्तेषामीदृग्विदा गतिः।।
तामसास्तिमिरं यान्ति राजसा रज एव तत्।
सात्विकाः सत्वसंपन्नाः सत्वमेव प्रयान्ति ते।।
ये सिद्धाः सन्ति साङ्ख्येन योगसत्वबलेन च।
नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम्।।
एकस्तंभे नवद्वारे त्रिस्थूणे पञ्चसाक्षिके।
एतस्मिन्देहनगरे राजसस्तु सदा भवेत्।।
उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः।
चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः।।
क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः।
नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः।।
कामः क्रोधश्च लोभश्च मोहश्च मद एव च।
महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः।।
गर्वः स्तंभो ह्यहङ्कार ईर्ष्या च द्रोह एव च।
पारुष्यं क्रूरता चैव सप्तैत क्षत्रियाः स्मृताः।।
तीक्ष्णता निकृतिर्माया शाठ्यं डंभो ह्यनार्जवम्।
पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः।।
तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणादयः।
आधिश्चापि विषादश्च प्रमादो हीनसत्वता।।
भयं विक्लबता जाड्यं पापकं मन्युरेव च।
आशा चाश्रद्दधानत्वमनवस्थाप्यमन्त्रणम्।।
आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः।
यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते।।
येषुयेषु हि भावेषु यत्कालं वर्तते द्विजः।
तत्कालं वै स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः।।
प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत्।
तत्कालो वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः।।
तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः।
मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति।।
अलोलजिह्वः समुपस्थितो धृतिं
निधाय चक्षुर्युगमात्रमेव तत।
मनश्च वाचं च निगृह्य चञ्चलं
भयान्निवृत्तो मम भक्त उच्यते।।
ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः।
तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः।।
धर्मो जयति नाधर्मः सत्यं जयति नानृतम्।
क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि चतुरधिकशततमोऽध्यायः।। 104