आश्वमेधिकपर्व
अध्यायः १०३
वैशंपायन उवाच।
वासुदेवेन दानेषु कथितेषु यथाक्रमम्।
अवितृप्तश्च धर्मेषु केशवं पुनरब्रवीत्।।
देव धर्मामृतमिदं शृण्वतोपि परंतप।
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव।।
अनडुत्संप्रदानस्य यत्फलं तु विधीयते।
तत्फलं कथयस्वेह तव भक्तस्य मेऽच्युत।।
यानिचान्यानिदानानित्वया नोक्तानि कानिचित्।।
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात्फलम्।।
भगवानुवाच।
पवित्रत्वात्सुपुण्यत्वात्पावनत्वात्तथैव च।
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम्।।
दशधेनुसमोऽनड्वानेकोपि कुरुपुङ्गव।
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः।।
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः।
धुरं धारयति क्षिप्रं दत्तो विप्राय पाण्डव।।
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर।
यथाकामं महादेजा गवां लोके महीयते।।
यश्च दद्यादनडुहौ द्वौ युक्तौ च धुरंधरौ।
सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः।
तस्य यत्पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर।।
सहस्रगोप्रदानेन यत्प्रोक्तं फलमुत्तमम्।।
तत्पुण्यफलमाप्नोति याति लोकान्स मामकान्।।
यावन्ति चैव रोमाणि तयोरनुडुहोर्नृप।
तावद्वर्षसहस्राणि मम लोके महीयते।।
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव।
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु।।
यस्तु दद्यादनडुहं दरिद्राय द्विजातये।
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव।।
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम्।
मम लोकेषु रमते यावदाभूतसंप्लुवम्।।
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम्।
भाजनोपस्करैर्युक्तं धनधान्यैरलङ्कृतम्।
दासीगोभूमिसंयुक्तमन्यूनं सर्वसाधनैः।।
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर।
दद्यात्सदक्षिणं यस्तु तस्य पुण्यफलं शृणु।।
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा।
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम्।।
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम्।
स्त्रीसहस्रावृते रम्ये भवने तत्र काञ्चने।
मोदते ब्रह्मलोकस्थो यावदाभूतसप्लवम्।।
शय्यं प्रस्तरणोपेतां यः प्रयच्छति पाण्डव।
अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः।
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु।।
धेनुदानस्य यत्पुण्यं विधिदत्तस्य पाण्डव।
तत्पुण्यं तमनुप्राप्य पितृलोके महीयते।।
शिल्पमध्ययनं वाऽपि विद्यां मन्त्रौषधानि च।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु।।
आहिताग्निसहस्रस्य पूजितस्यैव यत्फलम्।
तत्पुण्यफलमाप्नोति यस्तु शय्यां प्रयच्चति।।
छन्दोभिः संप्रयुक्तेन विमानेन विराजता।
सप्तर्षिलोकान्व्रजति पूज्यते ब्रह्मवादिभिः।।
चतुर्युगानि वै त्रिंशत्क्रीडित्वा तत्र देववत्।
इह मानुष्यके लोके विप्रो भवति वेदवित्।।
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम्।
कविनश्यति तदा पापं तस्य वर्षकृतं नृप।।
अथ प्रक्षालयेत्पादौ तस्य तोयेन भक्तिमान्।
दशवर्षकृतं पापं व्यपोहति न संशयः।।
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत्।
तद्द्वादसमारूढं पापमाशु व्यपोहति।।
धेनुकाञ्चनदत्तस्य यत्पुण्यं समुदाहृतम्।
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत्।।
स्वागतेन तु यो विप्रं पूजयेदासनेन च।
प्रत्युत्थानेन वा राजन्स देवानां प्रियो भवेत्।।
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः।
प्रत्युत्थानेन पितरः प्रीति यान्त्यतिथिप्रियाः।।
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप।
संवत्सरकृतं पापं तस्य सद्यो विनश्यति।।
यः प्रयच्छति विप्राय आसनं माल्यभूषितम्।
स याति मणिचित्रेण रथेनेन्द्रनिकेतनम्।।
पुरन्दरासने तत्र दिव्यनारीविभूषितः।
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः।।
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर।
स याति रत्नचित्रेण वाहनेन सुरालयम्।।
स तत्र कामं क्रीडित्वा सेव्यमानोप्सरोगणैः।
इह राजा भवेद्राजन्नात्र कार्या विचारणा।।
पादपं पल्लवाकीर्णं पुष्पतिं फलितं तथा।
गन्धमाल्यैरथाभ्यर्च्य वस्त्राभरणभूषितम्।।
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम्।
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु।।
जांबूनदविचित्रेण विमानेन विराजता।
पुरन्दरपुरं याति जयशब्दरवैर्युतः।।
ततः शक्रपुरे रम्ये तस्य कल्पकपादपः।
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति।।
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च।
तावद्वर्षसहस्राणि शक्रलोके महीयते।।
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः।
रथाश्वगजसंपूर्णं पुरं राज्यं च वक्ष्यति।।
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृति नरः।
आलयं विधिवत्कृत्वा पूजाकर्म च कारयेत्।
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु।।
अश्वमेधसहस्रस्य यत्पुण्यं समुदाहृतम्।
तत्फलं समवाप्नोति मत्सालोक्यं प्रपद्यते।
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर।।
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा।
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु।।
आरुद्य काञ्चनं यानं द्योतयन्सर्वतो दिशम्।
गच्छेदादित्यलोकं स सेव्यमानः सुरोत्तमैः।।छ
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः।
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः।।
देवालयेषु वा राजन्ब्राह्मणावसथेषु वा।
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा।।
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च।
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना।।
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः।
सुप्रीताः संप्रयच्चन्ति विमानं कामगं सुखम्।।
स च तेन पिमानेन याति देवपुरं नरः।
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते।।
देवलोकावतीर्णस्तु सोस्मिँल्लोके नराधिप।
वेदवेदाङ्गतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।
चत्वरे वा सभायां वा विस्तीर्णि वा सभाङ्गणे।
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर।।
तत्राग्निं चतुरो मासाञ्ज्वालयेद्यस्तु भक्तिमाम्।
समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान्।।
भोजयेत्पायसं मृष्टं मद्गतेनान्तरात्मना।
दक्षिणां च यथाशक्ति ब्राह्म्णेभ्यो निवेदयत्।।
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयेत्तु माम्।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर।।
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा।
यास्यामः परमां प्रीतिं नात्र कार्याविचारणा।।
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च।
सोस्मत्प्रीतिकरः श्रीमान्मम लोके महीयते।।
मम लोकावतीर्णश्च अस्मिँल्लोके महायशाः।
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः।।
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु।
श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः।
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर।।
गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्सर्वफलमाप्नोति वर्षेणैकेन पाण्डव।।
काञ्चनेन विचित्रेण विमानेनार्कशोभिना।
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः।।
गीयमानो वरस्त्रीभिर्वर्षाणां कोटिविंशतिम्।
क्रीडित्वा मामके तत्र सर्वदेवैरभिष्टुतः।
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत्।।
करकां कर्णिकां वाऽपि महद्वा जलभाजनम्।
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु।।
ब्रह्मकूर्चे तु यत्पीते फलं प्रोक्तं नरादिप।
तत्पुण्यफलमाप्नोति जलभाजनदो नरः।
सुतृप्तः सर्वसौगन्धः प्रहृष्टेन्द्रियमानसः।।
हंससारसयुक्तेन विमानेन विराजता।
स याति वारुणं लोकं दिव्यगन्धर्वसेवितम्।।
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम्।
ग्रीष्मे च त्रिषु मासेषु तस्य पुण्यफलं शृणु।।
कपिलाकोटिनानस्य यत्पुण्यं तु विधीयते।
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति।।
पूर्णचन्द्रप्रकासेन विमानेन विराजता।
स गच्छेच्चन्द्रभवनं सेव्यमानोप्सरोगणैः।।
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः।
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत्।।
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः।
सुभगो रूपवाञ्शूरः पण्डितश्च भवेद्द्विजः।।
वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः।
सुभगो भवति श्रीमान्स्त्रीणां नित्यं मनोरमः।।
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः।
स याति रथमुख्येन काञ्चनेन विराजता।
शक्रलोकं महातेजाः सेव्यमानोप्सरोगणैः।।
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः।
धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः।।
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः।
सुगन्धवदनः श्रीमान्मेदासौभाग्यसंयुतः।।
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा।
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिमुपागताः।।
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः।
उपगीयमाना गन्धर्वैर्यान्तीश्वरपुरं नराः।।
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम्।
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः।।
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः।।
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः।।
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन।
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः।।
अभ्यर्च्य विधिवद्विप्रांस्तिलान्गुडसमन्वितान्।
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पुण्यफलं शृणु।।
गोप्रदानेन यत्पुण्यं विधिवत्पाण्डुनन्दन।
तत्पुण्यं समनुप्राप्तो यमलोके महीयते।
ततश्चापि च्युतः कालादिह राजा भविष्यति।।
तस्मिन्नेव दिने विप्रान्भोजयित्वा सुदक्षिणम्।
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये।।
ते यान्त्यादित्यवर्णाभैर्विमानैर्वरुणालयम्।
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामकामिनः।।
ततोऽवतीर्णाः कालेन ते चास्मिन्मानुषे पुनः।
भोगवन्तो द्विजश्रेष्ठ भविष्यन्ति न संशयः।।
अनन्तराशी यश्चापि वर्तते व्रतवत्सदा।
सत्यवाक्क्रोधरहितः शुचिः स्नानरतः सदा।
स विमानेन दिव्येन याति शक्रपुरं नरः।।
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः।
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः।।
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते।
ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः।
स विमानेन दिव्येन याति शक्रपुरं नरः।।
दशकोटिसहस्राणि क्रीडित्वाऽप्सरसां गणैः।
इह मानुष्यके लोके वेदविद्ब्राह्मणो भवेत्।।
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः।
वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु।।
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना।
याति यानेन दिव्येन स महेन्द्रपुरं नरः।।
अकृशाभिर्वरस्त्रीभिः सेव्यमानो यथासुखम्।
ततो द्वादशकोटिं स समाः सम्यक्प्रमोदते।।
शक्रलोकावतीर्णस्तु लोके चास्मिन्नराधिप।
भवेद्वै ब्राह्मणो विद्वान्क्षमावान्वेदपारगः।।
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः।
ब्रह्मचर्यव्रतैर्युक्तः शुचि क्रोधविवर्जितः।
तपोयुक्तस्य तस्याथ शृणुष्व फलमुत्तमम्।।
अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः।
स याति मम लोकान्वै दिव्यनारीनिषेवितः।।
तत्र साध्यैर्मरुद्भिस्तु पूज्यमानो यथासुखम्।
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः।।
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना।
समाप्ते तु व्रते तस्मिंस्तर्पयेच्छ्रोत्रियान्द्विजान्।।
सोपि गच्छति दिव्येन विमानेन महातपाः।
द्योतयनप्रभया व्योम मम लोकं प्रपद्यते।
स तत्र मोदते कामं कामरूपी यथासुखम्।।
त्रिंशत्कोटिसमा राजन्क्रीडित्वा तत्र देववत्।
इह मानुष्यके लोके पूजनीयो द्विजो भवेत्।
त्रयाणामपि वेदानां साङ्गानां पारगे भवेत्।।
यश्च मासोपवासं वै कुरुते मद्गतात्मना।
जितेन्द्रियो जितक्रोधोजितधीः स्नानतत्परः।।
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान्।
दक्षिणां च ततो दद्यात्प्रहृष्टेनान्तरात्मना।।
स गच्छति महातेजा ब्रह्मलोकमनु****म्।
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः।।
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः।
शतकोटिसमा राजन्यथाकामं प्रमोदते।।
ततः कालावतीर्णश्च सोस्मिँल्लोके द्विजो भवेत्।
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान्।।
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः।
महाप्रस्तानमेकाग्नो याति मद्गतमानसः।।
स गच्छेदिन्द्रसदनं विमानेन महातपाः।
महामणिविचित्रेण सौवर्णन विराजता।।
शतकोटिसमास्तत्र सुराधिपतिपूजितः।
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः।।
शक्रलोकावतीर्णश्च मानुषेषूपजायते।
राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः।।
प्रायोपवेशं यश्चापि कुरुते मद्गतात्मना।
नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः।
अन्तःस्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु।।
कामगः कामरूपी च बालसूर्यसमप्रभः।
स विमानेन दिव्येन याति लोकाननामयान्।।
स्वर्गत्स्वर्गं महातेजा गत्वा चैव यथासुखम्।
मम लोकेषु रमते यावदाभूतसंप्लवम्।।
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना।
सोपि यानेन दिव्येन मम लोकं प्रपद्यते।।
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा।
त्रिंशत्कोटिसमा राजन्मोदते मम संनिधौ।
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत्।।
कर्षणं साधयन्यस्तु मां प्रपन्नः शुचिव्रतः।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदाहरन्।।
बालसूर्यप्रकाशेन विमानेन विराजता।
मम लोकं समासाद्य वर्षकोटिं प्रमोदते।
मम लोकावतीर्णश्च सोस्मिँल्लोके नृपो भवेत्।।
निवेशयति मन्मूर्त्यामात्मानं मद्गतः शुचिः।
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः।।
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः।
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः।।
प्रविशेत्स महातेजा मां वा शङ्करमेव वा।
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा।।
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा।
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते।।
तत्र जांबूनदमये विमाने कामगामिनि।
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः।।