आश्वमेधिकपर्व

अध्यायः १०२

Aswamedhika Parva (Sanskrit) · Adhyaya 102
अक्षर का आकार

भगवानुवाच।

अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम्।।

यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम्।
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव।।

स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः।
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा।।

बालसूर्यप्रकाशेन विचित्रध्वजशोभिना।
याति यानेन दिव्येन मम लोकं महायशाः।।

तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम्।
कामगः कामरूपी च क्रीडत्यप्सरसांगणैः।।

यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह।
तावद्भूमिप्रदः काले मम लोके महीयते।।

न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते।
न चापि भूमिहरणात्पापमान्यद्विशिष्यते।।

दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव।
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते।।

ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः।
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु।।

सप्तद्वीपसमुद्रान्ता रत्नसंचयसंकुला।
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत्।।

भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे।
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत्।।

सुवर्णमणिरत्नानि धनानि च वसूनि च।
सर्वदानानि वै राजन्ददाति वसुधां ददत्।।

सागरान्सरितः शैलान्समानि विषमाणि च।
सर्वगन्धरसांश्चैव ददाति वसुधां ददत्।।

ओषधीः फलसंपन्ना नानापुष्पसमन्विताः।
कमलोत्पलषण्डांश्च ददाति वसुधां ददत्।।

धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च।
स्वर्गमार्गगतिं चैव ददाति वसुधां ददत्।।

अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः।
न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम्।।

श्रोत्रिया महीं दत्त्वा यो न हिंसति पाण्डव।
तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः।
तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन।।

सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति।
पितरस्तस्य तृप्ययन्ति यावदाभूतसंप्लुवम्।।

मम रुद्रस्य सवितुस्त्रिदशानां तथैव च।
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै।।

तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर।
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा।।

यत्किंचित्कुरुते पापं पुरुषे वृत्तिकर्शितः।
स च गोकर्णमात्रेण भूमिदानेन शुध्यति।।

मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते।।

सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम्।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते।।

युधिष्ठिर उवाच।

देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर।
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः।।

भगवानुवाच।

शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन।
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम्।।

प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम्।
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप।।

सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम्।
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते।।

किंकरा मृत्युदण्डाश्च कुंभीपाकाश्च दारुणाः।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्।।

निरया रौरवाद्याश्च तथा वैतरणी नदी।
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम्।।

चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च।
यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम्।।

रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा।
अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम्।।

कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः।
भूमिर्देया नरश्रेष्ठ स निधइः पारलौकिकः।।

सीदमानकुटुंबाय श्रोत्रियायाग्निहोत्रिणे।
व्रस्थाय दरिद्राय भूमिर्देया नराधिप।।

यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम्।
दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा।।

यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः।
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम्।।

यथा बीजनि रोहन्ति जलसिक्तानि भूपते।
तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने।।

यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति।
तथा पापं नरस्येह भूमिदानं व्यपोहति।।

दाता दशानुगृह्णाति यो हरेद्दश हन्ति च।
अतीतान्यागतानीह कुलानि कुरुपुङ्गव।।

आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेन्पुनः।
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते।।

स्वदत्तां परदत्तां वा यो हरेत् वसुंधराम्।
न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित्।।

ब्राह्म्णस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान्।
स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः।।

दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति।
गवां शतसहस्रस्य हन्तुः स लभते फलम्।।

सोधश्शिरास्तु पापात्मा कुंभीपाकेषु पच्यते।
दिव्यैर्वर्षसहस्रैस्तु कुंभीपाकाद्विजनिस्सृतः।
इह लोके भवेत्स श्वा रातजन्मनि पाण्डव।।

दत्त्वा भूमि द्विजेन्द्राणां यस्तामेवोपजीवति।
स मूढो याति दुष्टात्मा नरकानेकविंशतिम्।
नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति।।

हलकृष्टा मही देया सबीजा सस्यमालिनी।
अथवा सोदका देया दरिद्राय द्विजातये।।

एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना।
सर्वान्कामानवाप्नोति मनसा चिन्तितानि च।।

बहुभिर्वसुधा दत्ता दीयते च नराधिपैः।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्।।

यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै।
स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु।।

बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम्।
यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम्।।

गवां शतसहस्रस्य सम्यग्धत्तस्थ यत्फलम्।
तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम्।।

यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव।
तावद्वर्षसहस्राणि मम लोके महीयते।।

ततश्चापि च्युतः कालादिह लोके स जायते।
षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः।।

यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति।
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव।।

स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः।
विमानं दिव्यामारूढः कामगः कामभोगवान्।।
वर्षकोटिं महातेजा मम लोके महीयते।।

ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत्।।

यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये।
कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः।।

पूर्णचन्द्रप्रकाशेन विमानेन विराजता।
कामरूपि यथाकामं स्वर्गलोके महीयते।।

ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः।
सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान्।।

तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति।
विशेषेण दरिद्राय तस्यापि शृणु यत्फलम्।।

पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन।
तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत्।।

यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत्।
तता तिलप्रदानाद्वै पापं त्यक्त्वा विसुद्ध्यति।।

तिलषण्डं प्रयुञ्जानो जांबूनदविभूषितम्।
विमानं दिव्यमारूढः पितृलोके महीयते।।

षष्टिं वर्षसहस्राणि कामरूपी महायशाः।
तिलप्रदाता रमते पितृलोके यथासुखम्।।

यः प्रयच्छति विप्राय तिलधेनुं नराधिप।
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम्।।

गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः।।

तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति।
तावत्कोटिसमा राजन्स्वर्गलोके महीयते।।

अष्टाढकतिलैः कृत्वा तिलधेनु नराधिप।
द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति।
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु।।

कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम्।
तत्पुण्यं समनुप्राप्तो मम लोके महीयते।।

मम लोकावतीर्णश्च सोस्मिँल्लोकेऽभिजायते।
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः।।

गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति।
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं।।

यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः।
तत्सर्वं तत्क्षणादेव विनश्यति न संशयः।।

यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम्।
आरूढः कामगं दिव्यं गोलोकमधिगच्छति।।

यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप।
तावद्वर्षसहस्राणि गवां लोके महीयते।।

गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत्।
सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः।।

तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा।
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज।।

ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम्।
तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः।।

आहिताग्नि दरिद्रं च श्रोत्रियं च जितेन्द्रियम्।
शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत्।।

आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित्।
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे।।

यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्।
असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति।।

नित्यस्वाध्यायनिरतास्त्वसंकीर्णेन्द्रियाश्च ये।
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते।।

ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा
जितेन्द्रियाः प्राणिवधै निवृत्ताः।
प्रतिग्रहे संकुचिता गृहस्था-
स्ते ब्राह्मणास्तारयितुं समर्थाः।।

नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी वृषलान्नवर्जी।
क्रतौ गच्छन्विधिवच्चापि जुह्व-
त्स ब्राह्मणस्तारयितुं समर्थः।।

ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः।
मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम्।।

द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित्।
अच्छिद्रपञ्चकालज्ञःक स विप्रस्तारयिष्यति।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि द्व्यधिकशततमोऽध्यायः।। 102 ।।