आश्वमेधिकपर्व

अध्यायः १०१

Aswamedhika Parva (Sanskrit) · Adhyaya 101
अक्षर का आकार

वैशंपायन उवाच।

श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्।।

देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत।
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ।।

सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक।
सर्वदानफलं सौम्य कथयस्व ममाच्युत।।

दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै।
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते।।

एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता।
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान्।।

शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम्।
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम्।।

यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः।
तत्क्षणात्पूततां याति पापकर्मरतोपि वा।।

एकाहमपि कौन्तेय भूमावुत्पादितं जलम्।
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत्।।

पानीयं परमं लोके जीवानां जीवनं स्मृतम्।
पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव।
पानीयस्य गुणा दिव्याः परलोके गुणावहाः।।

तत्र पुष्पोदकी नाम नदी परमपावनी।
कामान्ददाति राजेन्द्र तोयदानां यमालये।।

शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम्।
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम्।।

ये चाप्यतोयदातारः पूयस्तेषां विधीयते।

प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर।
तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति।
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता।

अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः।
अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः।।

अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च।
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते।।

सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम्।
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः।।

ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम्।
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ।।

अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः।
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः।
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव।।

तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्।।

देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा।
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम्।।

अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम्।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः।।

अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च।
उदानश्च समानश्च धारयन्ति शरीरिणम्।।

शयनोत्थानगमनग्रहणाकर्षणानि च
सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते।।

चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च।
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः।।

विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः।
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम्।।

देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा।
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते।।

यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः।
तस्मादन्नात्परं दानं न भूतं न भविष्यति।।

यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च।
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव।।

यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः।
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत्।।

परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम्।
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत।।

अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ।
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः।।

ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप।
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः।।

डंभानृतविमुक्तस्तु परां भक्तिमुपागतः।
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु।।

शतवर्षसहस्राणि कामगः कामरूपधृत्।
मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः।
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत्।।

अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये।
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु।।

गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम्।
तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः।।

अथ संवत्सरं दद्यादग्रभिक्षामयाचते।
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु।।

कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते।
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते।।

स शक्रभवने रम्ये र्षिकोटिशतं नृप।
यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः।।

अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः।
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु।।

कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम्।
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत्।।

स शक्रभवने रम्ये कामरूपी यथासुखम्।
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः।।

शक्रलोकावतीर्णश्च इह लोके महाद्युतिः।
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः।।

अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे।
देशकालाभियाताय दीयते पाण्डुनन्दन।।

याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे।
स लुब्धो नरकं याति कृमीणां कालसूत्रकम्।।

तत्र नरके घोरे लोभमोहविचेतनः।
दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः।।

तस्माच्च नरकान्मुक्तः कालेन महता हि सः।
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते।

यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः।
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः।।

पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत्।
तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः।
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः।।

न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात्।।

कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे।
न तत्फलमवाप्नोति यत्फलं विप्रबोजनान्।

द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी।
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम्।।

देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्।
श्रान्तसंवाहनं चैव तथा पादावसेचनम्।।

प्रतिश्रयप्रदानं च तथा शय्यासनस्य च।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते।।

पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम्।।

विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च।
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम।।

अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते।
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः।।

पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः।
पूजितस्तेन राजेन्द्र भवामीह न संशयः।।

शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः।
विमानेनेन्दुकल्पेन मम लोकं स गच्छति।।

अभ्यागतं श्रान्तमनुव्रजन्ति
देवाश्च सर्वे पितरोऽग्नयश्च।
तस्मिन्द्विजे पूजिते पूजिताः स्यु-
र्गते निराशाः पितरो व्रजन्ति।।

अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च।।

वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह।
निरयं रौरवं गत्वा दशवर्षाणि पञ्च च।
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत्।।

वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत्।
चण्डालत्वमवाप्नोति सद्य एव न संशयः।।

निर्वासयति यो विप्रं देशकालगतं गृहात्।
पतितस्तत्क्षणादेव जायते नात्र संशयः।।

नरके रौरवे घोरे वर्षकोटिं स पच्यते।
ततश्चापि च्युतः कालादिह लोके नराधमः।
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः।।

चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः।
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा।।

अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः।
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव।।

निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान्।
न जानाति किलात्मानं विष्ठकूपे निपातितं।।

मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते।
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत्।।

साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने।
न चातिथिं पूजयति वृथा भवति स द्विजः।।

पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम्।।

तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत्।
वृथा भवति तत्सर्वमाशया हि तया हतम्।।

देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च।
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान्।।

सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम्।
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत्।।

हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा।
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः।।

क्षुत्पिपासाश्रमार्ताय देशकालगताय च।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता।।

भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः।
अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता।।

अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः।
पूर्णचन्द्रप्रकाशेन विमानेन विराजते।।

सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति।
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः।।

ततस्चापि च्युतः कालादिह लोके महायशाः।
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।

यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते।
महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः।
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।

सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः।
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः।।

देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि।
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु।।

वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः।
तावद्वर्षाणि राजेन्द्र मम लोके महीयते।।

ततश्चापि च्युतः कालादिह लोके महायशाः।
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्।।

सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर।
अकालनियमेनापि सत्यवादी जितेन्द्रियः।।

सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः।
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः।।

श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः।
स विमानेन दिव्येन दिव्यरूपी महायशाः।।

पुरन्दरपुरं याति गीयमानोप्सरोगणैः।
मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः।
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत्।।

दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः।
जातिस्मरश्च भवति यत्रयत्रोपजायते।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि एकाधिकशततमोऽध्यायः।। 101