आश्रमवासिकपर्व
अध्यायः ९
युधिष्ठिर उवाच।
एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते।
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ।।
भीष्मे स्वर्गमनुप्राप्तो गते च मधुसूदने।
विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति।।
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः।
कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव।।
वैशम्पायन उवाच।
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता।
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ।।
पुत्र विश्राम्यतां तावन्ममापि बलवाञ्श्रमः।
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा।।
तमासनगतं देवी गान्धारी धर्मचारिणी।
उवाच काले कालज्ञा प्रजापतिसमं पतिम्।।
अनुज्ञातः स्वयं तेन व्यासेनि त्वं महर्षिणा।
युधिष्ठिरस्यानुमते कदाऽरण्यं गमिष्यसि।।
धृतराष्ट्र उवाच।
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना।
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्।।
अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम्।
पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु।
सर्वप्रकृतितिसान्निध्यं कारयित्वा स्ववेश्मनि।।
वैशम्पायन उवाच।
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा।
स च तद्वचनात्सर्वं समानिन्ये महीपतिः।।
ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः।
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः।।
ततो निष्क्रम्य नृपतिस्तस्मादन्तःकपुरात्तदा।
दद्दशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा।।
समवेतांश्च तान्सर्वान्पौराञ्जानपदांस्तथा।
तानागतानभिप्रेक्ष्य समस्तं च सुहृञ्जनम्।।
ब्राह्मणांश्च महीपाल नानादेशसमागतान्।
उवाच मतिमान्राजा धृतराष्ट्रोऽम्बिकासुतः।।
भवन्तः कुरुवश्चैव चिरकालं सहोषिताः।
परस्परस्य सुहृदः परस्परहिते रताः।।
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते।
तथा भवद्भिः कर्तव्यमविचार्य वचो मम।।
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे।
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे।।
भवन्तोप्यनुजानन्तु मान्या वोऽभूद्विचारणा।।
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती।
न च साऽन्येषु देशेषु राज्ञामिति मतिर्मम।।
शान्तोस्मि वयसाऽनेन तथा पुत्रविनाकृतः।
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः।।
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्।
मन्ये दुर्योधनैश्वर्याद्विशिष्टं बहुभिर्गुणैः।।
मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः।
ऋते वनं महाभागास्तन्माऽनुज्ञातुमर्हथ।।
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः।
बाप्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ।।
तानविब्रुवतः किञ्चित्सर्वाञ्शोकपरायणान्।
पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि नवमोऽध्यायः।। 9 ।।