आश्रमवासिकपर्व
अध्यायः ८
धृतराष्ट्र उवाच।
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर।।
कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः।
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत्।।
पर्युपासनकाले तु विपरीतं विधीयते।
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः।।
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः।
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम्।।
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत्।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः।।
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत्।।
आददीत बलं राजा मौलं मित्रबलं तथा।
अटवीबलं भृतं चैव तता श्रेणीबलं प्रभो।।
`मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः।'
तत्र मित्रबलं राजन्मौलं चैव विशिष्यते।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः।।
तथाऽऽचारबलं चैव परस्परसमं नृप।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते।।
आपदश्चापि बोद्धव्या बहुरूपा नराधिप।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु।।
विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन।
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा।।
यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परंतप।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा।।
हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव।।
तूणाश्मानं वाजिरथप्रवाहां
ध्वजद्रुमैः संवृतकूलरोधसम्।
पदातिनागैर्बहुकर्दमां नदीं
सपत्नानाशे नृपतिः प्रयोजयेत्।।
अथोपपत्त्या शकटं पद्मवज्रं च भारत।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो।।
चारयित्वा परबलं कृत्वा स्वबलदर्शनम्।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च।।
बलं प्रसादयेद्राजा निक्षिपेद्बलनो नरान्।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत्।।
सर्वथैव महाराज शरीरं धारयेदिह।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम्।।
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेणि पालयन्।।
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि।।
भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च।
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम।।
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि।।
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः।
पालयेद्वाऽपि धर्मेणि प्रजास्तुल्यं फलं लभेत्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि अष्टमोऽध्यायः।। 8 ।।