आश्रमवासिकपर्व
अध्यायः १०
धृतराष्ट्र उवाच।
शान्तनुः पालयामास यथावद्वसुधामिमाम्।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः।
पालयामास नस्तातो विदितं वो न संशयः।।
यथा च पाण्डुर्भाता मे दयितो भवतामभूत्।
स चापि पालयामास यथावत्तच्च वेत्थ ह।।
`अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः।
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम।।'
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः।।
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम्।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्।।
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्।
विमर्दः सुमहानासीदनयात्स्वकृतादथ।
`घातिताः कौरवेयाश्च पृथिवी च विनाशिता।।'
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम्।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः।।
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ।।
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया।।
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा।
अनुजानीत भद्रं वो व्रजाव शरणं च वः।।
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः।
सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च।
न जातु विषमं चैव गमिष्यति कदाचन।।
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः।।
`चतुर्णां लोकपालानां मध्ये विपरिवर्तते।'
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः।।
`एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः।'
युधिष्ठिरो महातेजा भवतः पालयिष्यति।।
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया।।
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ।।
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः।।
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः।।
इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि दशमोऽध्यायः।। 10 ।।