आश्रमवासिकपर्व

अध्यायः ७

Asramavasika Parva (Sanskrit) · Adhyaya 7
अक्षर का आकार

धृतराष्ट्र उवाच।

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा।
उदासीनगुणानां च मध्यस्थानां च भारत।।

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन।।

अथ नानाजनपदा दुर्गाणि विविधानि च।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्।।

ते च द्वादश कौन्तेय राजानो विविधात्मकाः।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो।।

एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः।
अत्र षाड्गुण्यमाचत्तं युधिष्ठिर निबोध तत्।।

वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः।।

यथा स्वपक्षो बलवान्परपक्षस्तथा बलः।
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा।।

यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धिं मसाश्रयेत्।।

द्रव्याणां सञ्चयश्चैव कर्तव्यः सुमहांस्तथा।
यदा समर्था यानाय नचिरेणैव भारत।।

तदा सर्वं विधेयं स्यात्स्थानेन च विचारयेत्।
भूमिरल्पफला देया विपरीतस्य भारत।।

हिरण्यरूप्यभूयिष्ठं मित्रं क्षीणमकोशभृत्।
विपरीतं निगृह्णीयात्स्वयं सन्धिविशारदः।।

सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि।।

तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत्।।

क्रमेणि युगपद्बुध्वा व्यसनानां बलाबलम्।
पीडनं स्तंभनं चैव कोशभङ्गस्तथैव च।।

कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता।।

कौन्तेय तद्धितं ते स्यात्पृथिवीं विजिगीषतः।
गुणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः।।

साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा।
आत्मसात्करणे नित्यं पालनानि गृहे तथा।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा।।

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः।
यद्येनमभियायाच्च बलवान्दुर्बल नृपः।

सामादिभिरुपायैस्तं क्रमेणि विनिवर्तयेः।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः।।

कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मोक्षः स्याच्छरीरं प्रति केवलम्।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि सप्तमोऽध्यायः।। 7 ।।