आश्रमवासिकपर्व
अध्यायः ६
वैशम्पायन उवाच।
ततो राज्ञाऽभ्यनुज्ञातो धृतराष्ट्रो महामनाः।
ययौ स्वभवनं राजा गान्धार्याऽनुगतस्तदा।।
मन्दप्राणगतिर्धामान्कृच्छ्रादिव समुद्वहन्।
पदानि स महीपालो जीर्णो गजपतिर्यथा।।
तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः।
स चापि परमेष्वासः कृपः सारद्वतस्तथा।।
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः।
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा।।
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी।
वधूभिरुपचारेणि पूजिताऽभुङ्क्त भारत।।
कृताहारं कृताहाराः सर्वे ते विदुरादयः।
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्।।
ततोऽब्रवीन्महाराजः कुन्तीपुत्रमुपह्वरे।
निषण्णं पाणिना पृष्ठे संस्पृशन्नंबिकासुतः।।
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन।
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते।।
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन।
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत्।।
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर।
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्।।
प्रातरुस्थाय तान्राजन्पूजयित्वा यथाविधि।
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः।।
ते तु सम्मानिता राजंस्त्वया लोकहितार्थिना।
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत।।
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा।।
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्।
दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः।।
चारयेथाश्च सततं चारैरविदितः परैः।
परीक्षितैर्बहुविधैः स्वराष्ट्रेषु परेषु च।।
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्।
अट्टाट्टालकसम्बाधं षट्पदं सर्वतो दिशम्।।
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च।
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च।।
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः।
आत्मा च रक्ष्यः सततं भोजनादिषु भारत।
विहाराहारकालेषु माल्यशय्यासनेषु च।।
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः।
शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर।।
मन्त्रिणिश्चैव कुर्वीथा द्विजान्विद्याविशारदान्।
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्।।
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिःक सह।
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्।।
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः।
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन।।
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः।
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः।।
मन्त्रभेदे हि ये दोषा भन्ति पृथिवीक्षिताम्।
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः।।
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले।
अभेदे च गुणा राजन्पुनःपुनररिंदम।।
पौरजानपदानां च शौचशौचे युधिष्ठिर।
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह।।
व्यवहारश्च ते राजन्नित्यमाप्तैरधिष्ठितः।
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः।।
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत।
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर।।
आदानरुचयश्चैव परदाराभिमर्शिनः।
उग्रदण्डिप्रधानाश्च मिथ्याव्याहारिणस्तथा।।
आक्रोष्टारश्च लुब्धाश्च हर्तारः साहसप्रियाः।
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः।
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः।।
`अवरोधभूमौ भृत्यैश्च पानं सह विवर्जयेत्।
आक्रोशन्त्यनुमत्तास्ते कलत्रं वाऽपि गृह्णते।।
जिघांसन्त्यपि शस्त्रेण नष्टाः क्रीडन्ति चोत्कटाः।
नानाक्षेपा व्याहरन्ति गम्यागम्यं न जानते।।
अतिपानेनि राजाऽपि सर्वं कोशं विनाशयेत्।
वितरेद्गायकेभ्यश्च वृथा च द्रव्यसञ्चयम्।।
शब्दमात्मनि दोषांश्च पिबेदेकश्च जायया।
युक्त्या प्रकाशमयति सुवीर्यस्यि विवृद्धये।।'
प्रातरेव हि पश्यथा ये कुर्युः प्रियकर्म ते।
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः।।
पश्येथाश्चि ततो योधान्सदा त्वं प्रतिहर्षयन्।
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्।।
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः।
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्।।
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ।
तथैवालङ्कृतः काले तिष्ठिथा भूरिदक्षिणः।।
`न विद्राव्य च तिष्ठेत परिहार्य विभूषणम्।
प्रयोज्यं सर्वदैवेह मङ्गल्यं पापनाशनम्।।'
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा।
विविधस्य महाराज विपरीतं विवर्जयेः।।
चारैर्विदित्वा शत्रूंश्च ये राज्ञामन्तरैषिणः।
तानाप्तैः पुरुषैर्दूराद्धातयेथा नराधिप।।
कर्म दृष्ट्वाऽथ भृत्यांस्त्वं वरयेथाः कुरूद्वह।
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः।।
सेनाप्राणेता च भवेत्तव तात दृढव्रतः।
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः।।
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव।
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः।।
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च।
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर।।
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु।
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया।।
गुणार्थिनां गुणः कार्यो विदुषा वै जनाधिप।
अविचार्याश्च ते ते स्युरचला इव नित्यशः।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि षष्ठोऽध्यायः।। 6 ।।