आश्रमवासिकपर्व

अध्यायः ५

Asramavasika Parva (Sanskrit) · Adhyaya 5
अक्षर का आकार

व्यास उवाच।

युधिष्ठिर महाबाहो ********** कुरुनन्दनः।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन्।।

अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः।
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम।।

गान्धारी च महाभागा प्राज्ञा करुणवेदिनी।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्।।

अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः।
अनुज्ञां लभतां राजा मां वृथेह मरिष्यति।।

`स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु।'
राजर्षीणां पुराणानामनुयातु गतिं नृपः।

राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः।।

वैशम्पायन उवाच।

इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा।
प्रत्युवाच महातेजा धर्मराजो महामुनिम्।।

भगवानेव नो मान्यो भगवानेव नो गुरुः।
भगवानस्य राज्यस्य कुलस्य च परायणम्।।

अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे।
निदेशवती च पितुः पुत्रो भवति धर्मतः।।

वैशम्पायन उवाच।

इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः।
युधिष्ठिरं महातेजाः पुनरेव महाकविः।।

एवमेतन्महाभाग यथा वदसिं भारत।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः।।

सोयं मयाऽभ्यनुज्ञातस्त्वथा च पृथिवीपतिः।
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव।।

एष एव परो धर्मो राजर्षीणां युधिष्ठिर।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्।।

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता।
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः।।

क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः।।

पुत्रसंस्यं च विपुलं राज्यं विप्रोषिते त्वयि।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु।।

त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ।
आराधितः स भृत्येन गान्धारी च यशस्विनी।।

अनुजानीहि पितरं समयोऽस्म तपोविधौ।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर।।

वैशम्पायन उवाच।

एतावदुक्त्वा वचनमनुमान्य च पार्थिवम्।
तथाऽस्त्विति च तेनोक्तः कौतेयेन ययौ वनम्।।

गते भगवति व्यासे राजा पाण्डुसुतस्तदा।
प्रोवाच पितरं वृद्धं मन्दंमन्दमिवानतः।।

यदाह भगवान्व्यासो यच्चापि भवतो मतम्।
यथाऽऽह च महेष्वासः कृपो विदुर एव च।।

युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः।।

इदं तु याचे नृपते त्वामहं शिरसा नतः।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि पञ्चमोऽध्यायः।। 5 ।।