आश्रमवासिकपर्व
अध्यायः ४
युधिष्ठिर उवाच।
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप।
दिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्।।
गृहे वसन्तं दुःखार्तमुपवासकृशं भृशम्।
यताहारं क्षितिशयं नाविदं भ्रातृभिः सह।।
अहोस्मि वञ्चितो मूढो भवता गूढबुद्धिना।
विस्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथा।।
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा।
यस्य मे त्वं महीपाल दुखान्येतान्यवाप्तवान्।।
पीडितं चापि जानामि राज्यमात्मानमेव च।
अनेन वचसा तेऽद्य दुःखितस्य जनेश्वरः।।
भवान्पिता भवान्माता भवान्नः परमो गुरुः।
भवता विप्रहीणा वै क्वनु तिष्ठामहे वयम्।।
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम।
अस्तु राजा महाराज यमन्यं मन्यते भवान्।।
अहं वनं गमिष्यामि भवान्राजा प्रशास्त्विदम्।
नमामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि।।
नाहं राजा भवान्राजा भवता परवानहम्।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे।।
न मन्युर्हृदि नः कश्चित्सुयोधनकृतेऽनघ।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः।।
वयं पुत्रा हि भवोत यथा दुर्योधनादयः।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम।।
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे।।
इयं हि वसुसंपूर्णा मही सागरमेखला।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्।।
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः।।
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरं।।
धृतराष्ट्र उवाच।
तापस्ये मे मनस्तात वर्तते कुरुनन्दन।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो।।
चिरमध्युषितः पुत्र चिरं शुश्रूषितस्त्वया।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप।।
वैशम्पायन उवाच।
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्।
उवाच विदुरं राजा धृतराष्ट्रोंऽबिकासुतः।।
संजयं च महात्मानं कृपं चापि महारथम्।
अनुनेतुमिहेच्छामि भवद्भिर्वसुधाधिपम्।।
म्लायते मे मनो हीदं मुखं च परिशुष्यति।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह।।
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः।
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्।।
तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्।
आर्तिं राजाऽगमत्तीव्रां कौन्तेयः परवीरहा।।
युधिष्ठिर उवाच।
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम्।
सोयं नारीं व्यपाश्रित्य शेते राजा गतासुवत्।।
आयसी प्रतिमा येन भीमसेनस्य सा पुरा।
चूर्णीकृता बलवता सोबलामाश्रितः स्त्रियम्।।
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः।।
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी।।
वैशम्पायन उवाच।
ततोस्य पाणिना राजञ्जलशीतेन पाण्डवः।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्।।
तेन रत्नौषधिमता पुण्येन च सुगन्धिना।
पाणिस्पर्शेन राज्ञः स राजा संज्ञामवाप ह।।
स्पृशन्तं पाणिना भूयः परिष्यज्य च पाण्डवम्।
`उवाच राजा धर्मज्ञो धृतराष्ट्रः शुभं वचः।।'
जीवामीवातिसंस्पर्शात्तव राजीवलोचन।
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप।
पाणिभ्यां हि परिस्प्रष्टुं प्राणानां हितमात्मनि।।
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्।।
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता।
ततो ग्लानमनास्तान नष्टसंज्ञ इवाभवम्।।
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो।
लब्ध्वा संजीवितोस्मीति मन्ये कुरुकुलोद्वह।।
वैशम्पायन उवाच।
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत।
पस्पर्श सर्वगात्रेषु स्नेहार्द्रस्तं शनैस्तदा।।
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्।।
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम्।।
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्।
दुःखान्यधारयद्राजन्मैवमित्येव चाब्रवीत्।।
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदःखिताः।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्।।
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ।।
ग्लायते मे मनस्तात भूयोभूयः प्रजल्पतः।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि।।
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्।
सर्वेषामवरोधानामार्तनादो महानभूत्।।
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्।।
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्।।
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्।
शोकजं बाष्पमुत्सृज्यि पुनर्वचनमब्रवीत्।।
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा।
यथा तव प्रियं राजंश्चिकीर्षामि परंतप।।
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्।।
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये।।
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्योत्य वचोऽब्रवीत्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमिवासपर्वणि चतुर्थोऽध्यायः।। 4 ।।