आश्रमवासिकपर्व
अध्यायः ४०
युधिष्ठिर उवाच।
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः।
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु।।
दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम।
यत्र वैचित्रवीर्योसौ दग्ध एवं वनाग्निना।।
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः।
नागायुतबलो राजा स दग्धो हि दवाग्निना।।
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्।।
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते।
धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः।।
न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम्।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्।।
पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत्।
उत्सृज्य् सुमहद्दीप्तं वनवासमरोचयत्।।
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्।।
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम।
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्।।
युधिष्ठिरस्य जननी भीमस्य विजयस्य च।
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्।।
वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना।
उपकारमजानन्स कृतघ्न इति मे मतिः।।
यत्रादहत्स भगवान्मातरं सव्यसाचिनः।
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः।।
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम्।
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे।।
वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः।
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह।।
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्।।
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने।
वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम।।
मन्ये पृथा वेपमाना कृशा धमनिसंतता।
हा तात धर्मराजेति मामाक्रन्दन्महाभये।।
भीम पर्याप्नुहि भयादिति चैवाभिवाशती।
समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना।।
सहदेवः प्रियस्तस्याः पुत्रेभ्योधिक एव तु।
न चैनां मोक्षयामास वीरो माद्रवतीसुतः।।
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्।
पाण्डवाःक पञ्च दुःखार्ता भूतानीव युगक्षये।।
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः।
प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
नारदागमनपर्वणि चत्वारिंशोऽध्यायः।। 40 ।।