आश्रमवासिकपर्व
अध्यायः ४१
नारद उवाच।
नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया।
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप।।
वनं प्रविशतानेन वायुभक्षेण धीमता।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम्।।
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम।।
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन्।।
स राजा जाह्नवीतीरे यथा ते कथितं मया।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ।।
एवमावेदयामासुर्मुनयस्ते ममानघ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर।।
एवं स्वेनाग्निना राजा समायुक्तो महीपते।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्।।
गुरुशुश्रूषया चैव जननी ते जनाधिप।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः।।
कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम्।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्।।
वैशम्पायन उवाच।
ततः स पृथिवीपालः पाण्डवानां धुरंधरः।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः।।
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः।।
ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने।।
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः।
शाचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः।।
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः।
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः।
तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः।।
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः।
ददौ श्राद्धानि विधिवद्दक्षइणावन्ति पाण्डवः।।
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः।।
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक्।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम्।।
यो यदिच्छति यावच्च तावत्स लभते द्विजः।
शयनं भोजनं यानं मणिरत्नमथो धनम्।।
यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः।।
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम्।।
ते चापि राजवचनात्पुरुषा ये गताऽभवन्।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः।।
माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः।।
समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम्।
नारदोप्यगमत्प्रीतः परमर्षिर्यथोप्सितम्।।
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः।
वनवासे तथा त्रीणि नगरे दशपञ्च च।।
हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च।।
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः।।
।। इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां
आश्रमिवासिकपर्वणि नारदागमनपर्वणि एकचत्वारिंशोऽध्यायः।।
।। समाप्तं नारदागमनपर्व।। 3 ।।
आश्रमवासिकपर्व च।। 15 ।।
अस्यानन्तरं मौसलपर्व भविष्यति।
तस्यायमाद्यः श्लोकः।
वैशम्पायन उवाच।
षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः।
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः।।
इदमाश्रमवासिकपर्व कुंभघोणस्थेन टी.आर्. कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1932 सन 1910.