आश्रमवासिकपर्व
अध्यायः ३९
वैशम्पायन उवाच।
तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्।।
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः।।
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्।।
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते।
तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः।
नारद उवाच।
चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात्।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप।।
युधिष्ठिर उवाच।
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः।।
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः।
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः।।
कथं च वर्तते चाद्य पिता मम स पार्थिवः।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः।।
नारद उवाच।
स्थिरीभूय महाराज शृणु वृत्तं यथातथम्।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने।।
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप।।
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः।
संजयेन च सूतेन साग्निहोत्रः सयाजकः।।
आतस्थे स तपस्तीव्रं पिता तव तपोधनः।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः।।
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः।।
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी।
संजयः षष्ठभुक्तेन वर्तयामास भारत।।
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै।।
अनिकेतोथ राजा स बभूव वनगोचरः।
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः।।
संजयो नृपतेर्नेता समेषु विषमेषु च।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता।।
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ।।
अथ वायुः समुद्भुतो दावाग्निरभवन्महान्।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः।।
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्।।
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे।
निराहारतया राजा मन्दप्राणविचेष्टितः।
असमर्थोऽपसरणे सुकृशे मातरौ च ते।।
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्।
इदमाह ततः सूतं संजयं जयतांवरः।।
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्।।
तमुवाच किलोद्विग्नः संजयो वदतांवरः।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना।।
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति।।
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्।।
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्।
तापसानां प्रशस्यं ते गच्च संजय माचिरम्।।
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा।।
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो।।
ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा।।
गान्धारी च महाभागा जननी च पृथा तव।
दावाग्निना समायुक्ते स च राजा पिता तव।।
संजयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः।।
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः।
प्रययौ संजयो धीमान्हिमवन्तं महीधरम्।।
एवं स निधनं प्राप्तः कुरुराजो महामनाः।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते।।
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम्।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत।।
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते।।
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव।।
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते।।
वैशम्पायन उवाच।
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्।।
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम्।।
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः।।
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते।
`रुरुदुर्दुःखसंतप्ता वर्णयन्तः पृथां तदा।।
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्।।
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्।।
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
नारदागमनपर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।