आश्रमवासिकपर्व
अध्यायः ३
वैशम्पायन उवाच।
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा।
नान्तरं दद्दशू राज्ये पुरुषाः प्रणयं प्रति।।
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्।
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः।।
कौरवश्चैव भीमश्च हृदाऽन्योन्यमवर्तताम्।
ध्यायन्तौ श्लक्ष्णया वाचा त्वन्योन्यमभितिष्टितां
अप्रकाशं व्यलीकानि चकारास्य वृकोदरः।
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा।।
स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्।
`असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः।।'
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाऽकरोत्।
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः।।
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःखासनावपि।
प्रोवाचेदं सुसंरब्धो भीमः सपरुषं वचः।।
अन्धस्य नृपतेः पुत्रा मया परिघवाहुना।
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः।।
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ।
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः।।
ताविमौ चन्दनेनाकौ वन्दनीयौ च मे भुजौ।
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः।।
एतास्चान्याश्च विविधाः शल्यभुता नराधिपः।
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्।।
सा च बुद्धिमती देवी कालपर्यायवेदिनी।
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे।
`कुन्तीं वर्या तु संवीक्ष्य शापे नास्याकरोन्मति'
ततः पञ्चदशे वर्षे समतीते नराधिपः।
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः।।
`सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम्।
तपोयोगात्तपस्तप्तुं मनश्चक्रे महामतिः।।'
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः।
श्वेताश्वोवाऽथकुन्ती वा द्रौपदी वा यशस्विनी।।
माद्रीपुत्रौ च भीमस्य मतं तावन्ववर्तताम्।
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः स्वयमप्रियम्।।
ततः समानयामास धृतराष्ट्रः सुहृज्जनम्।
बाष्पसंदिग्धमत्यर्थमिदमाह च तान्भृशम्।।
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः।
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः।।
योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम्।
दुर्योधनं कौरवाणामाधइपत्येऽभ्यषेचयम्।
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत्।।
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः।
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः।।
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च।
पदेपदे भगवता व्यासेन च महात्मना।
संजयेनाथ गान्धार्या तदिदं तप्यते मया।।
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु।
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम्।।
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः।
एतच्छ्रेयस्तु परमममन्यत जनार्दनः।।
सोहमेतान्यलीकानि दुर्वृत्तान्यात्मनस्तदा।
हृदये शल्यभूतानि धारयामि सहस्रशः।।
विशेषतस्तु दह्यामि वर्षे पञ्चदशेऽद्य वै।
अस्य पापस्य शुद्ध्यर्थं नियतोस्मि सुदुर्मतिः।।
चतुर्थे नियते काले कदाचिदपि चाष्टमे।
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम।।
करोत्याहारमिति मां सर्वः परिजनः सदा।
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः।।
भूमौ शये जप्यपरो दर्भष्वजिनसंवृतः।
नियमव्यपदेशेन गान्धारी च यशस्विनी।।
अहं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम्।
नानुतप्ये हतं तत्र क्षत्रधर्मं हि तं विदुः।।
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः।
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे।।
सुखमध्युषितः पुत्र त्वया सुपरिपालितः।
मया दानानि दत्तानि श्राद्धानि च पुनःपुनः।।
प्रकृष्टं च मया पुत्र पुण्यं चीर्णं यथाबलम्।
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्।।
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः।
समतीता नृशंसास्ते स्वधर्मेण हता युधि।।
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन।
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः।।
आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य ते।
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि।।
त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः।
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्।।
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्।
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया।।
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः।
उचितं नः कुले तात सर्वेषां भरतर्षभ।
पुत्रेष्वैश्चर्यमाधाय वयसोन्ते वनं नृप।।
तत्राहं वायुभक्षो वा निराहारोपि वा वसन्।
पत्न्या सहानया वीर चरिष्यामि तपः परम्।।
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि।
फलभाजो हि राजानः कल्याणस्येतरस्य वा।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि तृतीयोऽध्यायः।। 3 ।।