आश्रमवासिकपर्व

अध्यायः ३८

Asramavasika Parva (Sanskrit) · Adhyaya 38
अक्षर का आकार

जनमेजय उवाच।

दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः।
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः।।

वैशम्पायन उवाच।

तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः।
वीतशोकः स राजर्षिः पुनराश्रममागमत्।।

इतरस्तु जनः सर्वस्ते चैव परमर्षयः।
प्रतिजग्मुर्यथाकामं धृताराष्ट्राभ्यनुज्ञया।।

पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः।
अनुजग्मुर्महात्मानं सदारास्तं महीपतिम्।।

तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः।
द्वैपायनोऽभ्युपागम्य राजानमिदम्नब्रवीत्।।

धृताष्ट्र महाबाहो शृणु कौरवनन्दन।
श्रुतास्ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्।।

अद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्।
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः।।

मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः।
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्।।

गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम्।
यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः।।

युधिष्ठिरः स्वयं धीमान्भवन्तमनुरुध्यते।
सहितो भ्रातृभिः सर्वैःइ सदारः ससुहृज्जनः।।

विसर्जयैनं यात्वेष स्वराज्यमनुशासताम्।
मासः समधिकस्तेषामतीतो वसतां वने।।

एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप।
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरूद्वह।।

इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना।
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्।।

अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह।
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते।।

रमे चाहं त्वया पुत्र पुरेव गजसाहये।
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना।।

प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि।
न मे मन्युर्महाबाहो गम्यतां मा चिरं कृथाः।।

भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते।
उपयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः।।

मातरौ ते तथैवेमे शीर्णपर्णकृताशने।
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः।।

दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः।
व्यासस्य तपसो वीर्याद्भवतश्च समागमात्।।

प्रयोजनं चिरं वृत्तं जीवितस्य ममानघ।
उग्रं तपः समास्थास्येत्वमनुज्ञातुमर्हसि।।

त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्।
श्वोवाऽद्य वा महाबाहो गम्यतां माचिरं कृथाः।।

राजनीतिः सुबहुशः श्रुता ते भरतर्षभ।
संदेष्टव्यं न पश्यामि कृतमेतावता विभो।।

वैशम्पायन उवाच।

इत्युक्तवचनं तं तु नृपो राजानमब्रवीत्।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्।।

कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा।
भवन्तमहमन्विष्ये मातरौ च यतव्रतः।।

तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च।
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे।।

गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम्।
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः।।

वैशम्पायन उवाच।

इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत।
स्नेहबाष्पाकुले नेत्रे परिमृज्य विनीतवत्।।

विसर्जयति मां राजा गान्धारी च यशस्विनी।
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः।।

न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि।
तपसो हि परं नास्ति तपसा विन्दते महत्।।

ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा।
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा।।

शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे।
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा।।

पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः।
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे।।

सर्वे हि भस्मासान्नीतास्ते द्रोणेन रणाजिरे।
अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि।
चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः।।

केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात्।
यद्‌दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः।।

शिवेन पश्य नः सर्वान्दुर्लभं तव दर्शनम्।
भविष्यत्यंब राजा हि तीव्रं चारप्स्यते तपः।।

एतच्छ्रुत्वा महाबाहुः सहदेवो युधांपतिः।
युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः।।

नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ।
प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने।।

इहैव शोषयिष्यामि तपसेदं कलेवरम्।
पादशुश्रूषणेरक्तो राज्ञो मात्रोस्तथाऽनयोः।।

तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्।
गम्यतां पुत्र मैवं त्वं वोचः कुरु वचो मम।।

आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः।
उपरोधो भवेदेवमस्माकं तपसः कृते।।

त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात्।
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो।।

एवं संस्तंभितं वाक्यैः कुन्त्या बहुविधैर्मनः।
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः।।

ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः।
अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन्।।

युधिष्ठिर उवाच।

राज्यं प्रति गमिष्यामः शिवेन प्रतिनन्दितः।
अनुज्ञातास्त्वया राजन्गमिष्यामो विकल्मषाः।।

एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना।
अनुयज्ञे जयाशीर्भिः पूजयित्वा युधिष्ठिरम्।।

भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः।
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान्।।

अर्जुनं च समाश्लिष्य यंमौ च भरतर्षभौ।
अनुयज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च।।

गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः।
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम्।।

चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे।
पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम्।।

द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः।
न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः।।

श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः।।
संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह।।

ततः प्रजज्ञे निनदः सूतानां युज्यतामिति।
उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि।।

ततो युधिष्ठिरो राजा सदारः सहसैनिकः।
नगरं हास्तिनपुरं पुनरायात्सबान्धवः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि अष्टत्रिंशोऽध्यायः।। 38 ।।

।। समाप्तं चेदं पुत्रदर्शनपर्व।। 2 ।।