आश्रमवासिकपर्व
अध्यायः ३७
वैशम्पायन उवाच।
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान्।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह।।
स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च।
विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात्।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्।।
जनमेजय उवाच।
ममापि वरदो व्यासो दर्शयेत्पितरं यदि।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव तत्।।
प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः।
प्रसादादृषिमुख्यस्य मम कामः समृद्ध्यताम्।।
सौतिरुवाच।
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान्।
प्रसादमकरोद्धीमानानयच्च परिक्षितम्।।
ततस्तद्रूपवयसमागतं नृपतिं दिवः।
श्रीमन्तं पितरं राजा ददर्श स परीक्षितम्।।
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम्।
अमात्या ये च निहता राज्ञस्तांश्च ददर्श ह।।
ततः सोवभृथे राजा मुदितो जनमेजयः।
पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः।।
`परीक्षिदपि तत्रैव बभूव स तिरोहितः।'
स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत्।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा।।
आस्तीक विविधाश्चर्यो यज्ञेऽयमिति मे मतिः।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः।।
आस्तीक उवाच।
ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ।।
श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः।।
कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः।।
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम्।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्।।
ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये।
यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया।।
सौतिरुवाच।
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः।
पूजयामास तमृषिमनुमान्य पुनःपुनः।।
पप्रच्छ तमृषि चापि वैशम्पायनमच्युतम्।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि सप्तत्रिंशोऽध्यायः।। 37 ।।