आश्रमवासिकपर्व

अध्यायः ३६

Asramavasika Parva (Sanskrit) · Adhyaya 36
अक्षर का आकार

सौतिरुवाच।

एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः।
पितामहानां सर्वेषां गमनागमनं तदा।।

अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति।
कथं न त्यक्तदेहानां पुनस्तद्रूपदर्शनम्।।

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्।
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम्।।

वैशम्पायन उवाच।

अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः।
कर्मजानि शरीराणि शरीराकृतयस्तथा।।

महाभूतानि नित्यानि भूताधिपतिसंश्रयात्।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्।।

अनाशया कृतं कर्म तस्य चेष्टः फलागमः।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते।।

अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः।
भूतानामात्मभावो यो ध्रुवोसौ संविजानताम्।।

यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता।
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते।।

नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्।।

अश्वमेधश्रुतिश्चेयमश्वसंज्ञपनं प्रति।
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः।।

अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे।।

सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव।
यदा समन्विता देवाः पशूनां गमनेश्वराः।।

गमिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः।।

अस्य नाशं समायोगं यः पश्यति वृथामतिः।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः।।

वियोगे दोषदर्शी यः संयोगं स विसर्जयेत्।
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम।।

परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः।
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते।।

अदर्शनादापतितः पुनश्चादर्शनं गतः।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता।।

येनयेन शरीरेणि करोत्ययमनीश्वरः।
तेनतेन शरीरेण तदवश्यमुपाश्नुते।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि षट्त्रिंशोऽध्यायः।। 36 ।।