आश्रमवासिकपर्व

अध्यायः ३५

Asramavasika Parva (Sanskrit) · Adhyaya 35
अक्षर का आकार

वैशम्पायन उवाच।

ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम्।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः।।

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्।
संहृष्टमनसः सर्वे देवलोक इवामराः।।

पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः।।

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः।।

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन्।।

परस्परं समागम्य योधास्ते भरतर्षभ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः।।

असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह।।

पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः।।

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्।।

परस्परं समागम्य योधानां भरतर्षभ।
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्।।

`देवलोकं गता ये च ये च ब्रह्मसदो गताः।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः।।

तथा वैवस्वतं लोकं ये च यक्षानुपागताः।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान्।।

विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः।
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः।।'

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं।।

ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्।।

अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम्।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे।।

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्।।

ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्।।

विचित्रगतयः सर्वे यानवाप्यामरैः सह।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः।।

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः।
धर्मसीलो महातेजाः कुरूणां हितकृतदा।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः।

यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः।।

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्।।

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते।।

एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्।।

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः।
दिव्यमाल्यांबरधरा यथाऽऽसां पतयस्तथा।।

ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे।।

यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह।
तंतं विसृष्टवान्व्यासो वरदो धर्मवत्सलः।।

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि।।

`ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः।
बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम्।।'

प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः।
इष्टबान्धवसंयोगमनायासमनामयम्।।

यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम्।।

स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः।।

ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः।
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम्।।

`पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः।
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा।।'

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि पञ्चत्रिंशोऽध्यायः।। 35 ।।