आश्रमवासिकपर्व

अध्यायः ३४

Asramavasika Parva (Sanskrit) · Adhyaya 34
अक्षर का आकार

वैशम्पायन उवाच।

ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः।।

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्।।

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्।
पौरजानपदश्चापि जनः सर्वो यथा वयः।।

ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः।।

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः।
राजानश्च महाभागा नानादेशनिवासिनः।
`प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति।।'

ततः सुतुमुलः शब्दो जलान्ते जनमेजय।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः।।

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः।।

विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः।।

कर्णदुर्योधनौ चैव शकुनिश्च महारथः।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः।।

जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान्।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः।।

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज।।

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः।।

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः।।

यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते।।

दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः।।

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः।।

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्।।

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः।।

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम्।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः।।

तदुत्सवमहोदग्रं हृष्टनारीनराकुलम्।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा।।

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः।। 34 ।।