आश्रमवासिकपर्व

अध्यायः ३३

Asramavasika Parva (Sanskrit) · Adhyaya 33
अक्षर का आकार

व्यास उवाच।

भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्स्वकान्गणान्।
वधूश्च पतिभिः सार्धं निशि सुप्तोस्थिता इव।।

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी।
द्रौपदी पञ्चपुत्रांश्च पितॄन्भ्रातॄंस्तथैव च।।

पूर्वमेवैष हृदये व्यवसायोऽभकवन्मम।
यदाऽस्मि चोदितो राज्ञा भवत्या पृथयैव च।।

न ते शोच्या महात्मानः सर्व एव नरर्षभाः।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः।।

भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते।
अवतेरुस्ततः सर्वे देवा भागैर्महीतलम्।।

गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोपि च।।

देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः।
ते एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे।।

गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव।।

पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम्।
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः।।

कलिं दुर्योधनं विद्धि शकुनिं द्वापरं नृपम्।
दुःशासनादीन्विद्धि त्वं राक्षसान्शुभदर्शने।।

मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्।
विद्धिं त्वं तु नरमृषिमिमं पार्थं धनंजयम्।
नारायणं हृषीकेशमश्विनौ यमजौ तथा।।

द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम्।
लोकांश्च तापयानं वै कर्णं विद्धि पृथासुतम्।।

यः स वैरार्थमुद्भूतः संघर्षजननस्कतथा।
तं कर्णं विद्धि कल्याणि भास्करं शुभदर्शने।।

यश्च पाण्डवदायादो हतः षङ्मिर्महारथैः।
स सोम इह सौभद्रो योगादेवाभवद्द्विधा।।

द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्।
अग्रेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्।।

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्।
गाङ्गेयो वसुवीर्येण देवो मानुषतां गतः।।

एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने।।

यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम्।
तदद्य व्यपनेष्यामि परलोककृताद्भयात्।।

सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति।
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्तत्र संयुगे।।

वैशम्पायन उवाच।

इति व्यासस्य वचनं श्रुत्वा सर्वा जनस्तदा।
महता सिंहनादेन गङ्गामभिमुखो ययौ।।

धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः।।

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम्।।

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः।
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः।।

जगाम तदहस्चापि तेषां वर्षशतं यथा।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्।।

अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि त्रयस्त्रिंशोऽध्यायः।। 33 ।।