आश्रमवासिकपर्व

अध्यायः ३२

Asramavasika Parva (Sanskrit) · Adhyaya 32
अक्षर का आकार

कुन्त्युवाच।

भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्।
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम।।

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः।
भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम्।।

शौचने त्वागसस्त्यागैः शुद्धेन मनसा तथा।
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन।।

स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः।
अवश्यं ते ग्रहीतव्यमिति मां सोब्रवीद्वचः।।

ततः शापभयाद्विप्रमवोचं पुनरेव तम्।
एवमस्त्विति च प्राह पुनरेव स मे द्विजः।।

धर्मस्य जननी भद्रे भवित्री त्वं शुभानने।
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि।।

इत्युक्त्वाऽन्तर्हितो विप्रस्ततोऽहं विस्मिताऽभवम्।
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति।।

अथ हर्म्यतलस्थाऽहं रविमुद्यन्तमीक्षती।
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्।।

स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती।
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्।।

द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च।
तताप लोकानेकेन द्वितीयेनागमत्स माम्।।

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह।
गम्यतामिति तं चाहं प्रणम्य सिरसाऽवदम्।।

स मामुवाच तिग्मांशुर्वृथाऽऽह्वानं न मे क्षमम्।
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव।।

तमहं रक्षती विप्रं शापादनपकारिणम्।
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्।।

ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान्।
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्।।

ततोऽहमन्तर्भवने पितुश्चित्तानुरक्षिणी।
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्।।

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु।
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः।।

स मया सूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः।
तन्मां दहति विप्रर्षे यथा सुविदितं तव।।

यदि पापमपापं वा यदेतद्विवृतं मया।
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि।।

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ।
तं चायं लभतां काममद्यैव मुनिसत्तम।।

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदांवरः।
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽऽत्थ माम्।।

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि।
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै।।

सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये।
वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा।।

मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति।
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः।।

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।