आश्रमवासिकपर्व

अध्यायः ३१

Asramavasika Parva (Sanskrit) · Adhyaya 31
अक्षर का आकार

जनमेजय उवाच।

वनवासं गते विप्र धृतराष्ट्रे महीपतौ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते।।

विदुरे चापि धर्मज्ञे धर्मराजं व्यपश्रिते।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले।।

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे।।

वनवासे च कौरव्याः कियन्तं कालमच्युतः।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा।।

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो।
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम्।।

वैशम्पायन उवाच।

`वनवासगतं राजन्धृतराष्ट्रं महीपतिम्।
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह।।

प्रथमे दिवसे चैषामापो मूलं फलं तथा।
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ।।

तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः।
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने।।

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ।।

तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ।
व्यासन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे।।

नारदः पर्वतश्चैव देवलश्च महातपाः।
विश्वावसुस्तुंबुरुश्च चित्रसेनश्च भारत।।

तेषामपि यथान्यायं पूजां चक्रे महातपाः।
धृतराष्ट्राभ्यनुज्ञातः कुरराजो युधिष्ठिरः।।

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्।
आसनेषु च पुण्येषु बर्हिणेषु वरेषउ च।।

तेषु तत्रोपविष्टेषु स तु राजा महामतिः।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह।।

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा।
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः।।

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप।
राजर्षीणां पुराणानां देवासुरविभिश्रिताः।।

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्।
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः।।

प्रीयमाणो महातेजाः सर्ववेदविदांवरः।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्।।

दह्यमानस्य शोकेन तव पुत्रकृतेन वै।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्टति नित्यदा।।

कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्।
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम।।

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप।
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन।।

इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः।
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम्।।

तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते।
प्रवणोस्मि वरं दातुं पश्य मे तपसो बलम्।।

एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना।
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे।।

धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः।।

अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः।
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः।।

दर्शनादेव भवतां पूतोऽहं नात्र संशयः।
विद्यते न भयं चापि परलोके ममानघाः।।

किंतु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः।।

अपापाः पाण्डवा येन निकृताः पापबुद्धिना।
घातिता पृथिवी येन सहया सनरद्विपा।।

राजानश्च महात्मानो नानाजनपदेश्वराः।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः।।

ये ते पितॄश्चं दारांश्च प्राणांश्च मनसः प्रियान्।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्।।

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे।
तथैव पुत्रपौत्राणां मम ये निहता युधि।।

दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्।
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम्।।

मम पुत्रेण मूढेन पापेनाकृतबुद्धिना।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता।।

`एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान्।
भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्।।'

एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम्।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः।।

इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते।।

वैशम्पायन उवाच।

तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय।।

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च।
तासां च वरनारीणां वधूनां कौरवस्य ह।।

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता।।

`लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद।
तच्चास्य मासं ज्ञातं भगवंस्तपसा त्वया।।'

षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव।
अस्य राज्ञोहतान्पुत्राञ्शोचतो न शमो विभो।।

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने।।

लोकानन्यान्समर्थोसि स्रष्टुं सर्वांस्तपोबलात्।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्।।

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्।
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा।।

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी।
सौभद्रकवधसंतप्ता भृशं शोचति भामिनी।।

इयं च भूरिश्रवसो भार्या परमसम्मता।
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी।।

यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः।
निहतः सोमदत्तश्च पित्रा सह महारणे।।

श्रीमतोस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे।।

तस्य भार्याशतमिदं दुःखशोकसमाहतम्।
पुनःपुनर्वर्धयानं शोकं रोज्ञो ममैव च।
हताहारेण महता मामुपास्ते महामुने।।

ये च शूरा महात्मानः श्वशुरा मे महारथाः।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो।।

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः।
कुर्यात्कालमहं चेयं वधूस्तव महामुने।।

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना।
प्रच्चन्नजातं पुत्रं तु सस्मारादित्यसन्निभम्।।

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः।।

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्।
तद्बूहि त्वं महाभागे यत्ते मनसि वर्तते।।

श्वशुराय तत कुन्ती प्रणम्य शिरसा तदा।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि एकत्रिंशोऽध्यायः।। 31 ।।