आश्रमवासिकपर्व
अध्यायः ३०
वैशम्पायन उवाच।
ततः समुपविष्टेषु पाण्डवेषु महात्मसु।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्।।
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप।।
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ।।
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते।।
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति।।
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता।।
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः।।
कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप।।
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत।
निर्वैरता महाराज सत्यमक्रोध एव च।।
कच्चित्ते न च मोहोस्ति वनवासेन भारत।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत्।।
विदितं चापि राजेन्द्र विदुरस्य महात्मनः।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः।।
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः।।
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः।।
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः।।
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः।।
भ्राता तव महाराज देवदेवः सनातनः।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः।।
सत्येन संवर्धयति यो दमेन शमेन च।
अहिंसया च दानेन तपसा च सनातनः।।
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना।।
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः।।
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः।।
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः।।
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः।।
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक।।
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः।।
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि त्रिंशोऽध्यायः।। 30 ।।