आश्रमवासिकपर्व
अध्यायः २९
वैशम्पायन उवाच।
ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम्।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी।।
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः।।
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा।
उत्सृज्य तु महार्हाणि शयनानि नराधिप।।
यदाहारोऽभकवद्राजा धृतराष्ट्रो महामनाः।
तदाहारा नृवींरास्ते न्यवसंस्तां निशां तदा।।
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियः।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम्।।
सान्तः पुरपरीवारः सभृत्यः सपुरोहितः।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया।।
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः।।
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः।।
मृगयूथैरनुद्विग्नैस्तत्रतत्र समाश्रितैः।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो।।
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः।।
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम्।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम्।।
ततः स राजा प्रददौ तापसार्थमुपाहृतान्।
कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि।।
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः।
कमण्डलूंश्चि स्थालीश्च पिठराणि च भारत।।
भाजनानि च लौहानि पात्रीश्च विविधा नृप।
यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्।।
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः।।
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम्।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा।।
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम्।।
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः।
निषीदेत्यभ्यनुज्ञातो वृस्यामुपविवेश ह।।
भीमसेनादयश्चैव पाण्डव भरतर्षभ।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया।।
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः।।
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः।।
व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम्।।
ततः स राजा कौरव्यः कुन्तीपुत्रश्च धर्मराट्।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन्।।
समागतस्ततो व्यासः शतयूपादिभिर्वृतः।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत।।
वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्।
प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्।।
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि एकोनत्रिंशोऽध्यायः।। 29 ।।