आश्रमवासिकपर्व

अध्यायः २

Asramavasika Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

वैशम्पायन उवाच।

एवं सम्पूजितो राजा पाण्डवैरंबिकासुतः।
विजहार यथापूर्वमृषिभिः पर्युपस्थितः।।

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः।
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत।।

आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः।
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः।
मया चैव भवद्भिश्च मान्य एष नराधिपः।।

निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत्।
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः।।

परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि।
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम्।।

ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः।
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः।।

धर्मिराजश्च भीमश्च सव्यसाची यमावपि।
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया।।

कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः।
शोकमस्मत्कृतं प्राप्यि न म्रियेतेति चिन्त्य ते।।

यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम्।
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान्।।

ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः।
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने।।

धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान्।
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत।।

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः।
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा।।

एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः।
भ्रातृभिः सहितो धीमान्पूजयामासं तं नृपम्।।

स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः।
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने।।

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु।
प्रीतिमानभवद्राजा धृतराष्ट्रोंऽबिकासुतिः।।

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव।।

प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः।
वैचित्रवीर्य नृपतौ समाचरत सर्वदा।।

यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः।
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी।।

तं स राजा महाराज पाण्डवानां धुरंधरः।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा।।

तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः।
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम्।।

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्।।

ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम्।
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः।।

न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा।
यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः।

ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः।
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा।।

यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम्।
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत।।

यः कश्चिदपि यत्किञ्चित्प्रमादादंबिकासुते।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः।।

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै।
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः।।

धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा।
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः।।

अन्ववर्तत भीमोपि निश्चितो धर्मजं नृपम्।
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः।।

राजानमनुवर्तन्त धर्मपुत्रममित्रहा।
अन्ववर्तत संक्रुद्धो हृदयेन पराङ्मुखः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि द्वितीयोऽध्यायः।।। 2 ।।