आश्रमवासिकपर्व
अध्यायः २८
धृतराष्ट्र उवाच।
युधिष्ठिर महाबाहो कच्चित्वं कुशली ह्यसि।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा।।
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप।।
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्।।
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते।
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि।।
कच्चित्ते परितुष्यन्ति शीलेनि भरतर्षभ।
शत्रवोपि कुतः पौरा भृत्या वा स्वजनोपि वा।।
कच्चिद्यजसकि राजेन्द्र श्रद्धावान्पितृदेवताः।
अतिथीनन्नपानेनि कच्चिदर्चसि भारत।।
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव।
क्षत्रिया वैश्यवर्णा वा शूद्रा वाऽपि कुटुम्बिनः।।
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ।।
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्।
यथोचितं महाराज यशसा नावसीदति।।
वैशण्पायन उवाच।
इत्येवादिनं तं स न्यायवित्प्रत्यभाषत।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यमब्रवीत्।।
युधिष्ठिर उवाच।
अपि ते वर्धते राजंस्पपो मन्दः श्रमश्च ते ।।
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा।
अथास्याः सफलो राजन्वनवासो भविष्यति।।
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति।।
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा।।
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम्।
संजयः कुशली चायं कच्चिन्नु तपसि स्थिरः।।
वैशम्पायन उवाच।
इत्युक्तः प्रत्युवाचैनं धृतराष्ट्रो जनाधिपम्।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः।।
वायुभक्षो निराहारः कृशो धमनिसंततः।
कजाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्।।
इत्येवं ब्रुवतस्तस्य जटी वीटामुखः कृशः।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः।।
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः।
`कविदुरस्त्वेष धर्मात्मा जनं दृष्ट्वा निवर्तते।।'
निवर्तमानं सहसा जनं दृष्ट्वाऽऽश्रमं प्रति।
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित्।।
भोभो विदुर राजाऽहं दयितस्ते युधिष्ठिरः।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत।।
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः।
विदुरो वृक्षमाश्रित्य कञ्चित्तत्र वनान्तरे।।
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः।।
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाऽग्रतः स्थितः।
विदुरस्याश्रमे राजा स च प्रत्याह संज्ञया।।
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः।।
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च।।
स योगबलमास्थाय विवेश नृपतेस्तनुम्।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव।।
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्।।
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः।।
पौराणमात्मनः सर्वं भविष्यं च विशाम्पते।
योगधर्मं महातेजा व्यासेन कथिनं यथा।।
धर्मराजश्च तत्रैनं सञ्चस्कारयिषुस्तदा।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत।।
भोभो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम्।
कलेबरमिहैवं ते धर्म एष सनातनः।।
लोको वैकर्तनो नाम भविष्यत्यस्य भारत।
यतिधर्ममवाप्तोसौ नैष शोच्यः परंतप।।
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत्।।
ततः स राजा धृतिमान्स च सर्वो जनस्तदा।
भीमसेनादयश्चैव परं विस्मियमागताः।।
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत्।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्।।
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्।।
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः।
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि अष्टाविंशोऽध्यायः।। 28 ।।