आश्रमवासिकपर्व
अध्यायः २७
वैशम्पायन उवाच।
स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ।
राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे।।
तापसैश्च महाभागैर्नानादेशसमागतैः।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः।।
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी।।
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः।
संजयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः।।
सञ्जय उवाच।
य एष जांबूनदशुद्धगौर-
स्तनुर्महासिंह इव प्रवृद्धः।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः।।
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसः पृथुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतेमम्।।
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपाभः।
सिंहोन्नतांसो गजखेलगामी
पद्मायताक्षोऽर्जुन एष वीरः।।
कुन्तीसमीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकल्पौ।
मनुष्यलोके सकले समोस्ति
ययोर्न रूपे न बले न शीले।।
इयं पुनः पद्मदलायताक्षी
मध्यं वयः किञ्चिदिव स्पशन्ती।
नीलोत्पलाभा पुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः।।
अस्यास्तु पार्श्वे कनकोपमत्व-
गेषा स्थिता मूर्तिमतीव गौरी।
सत्ये स्थिता सा भगिनी द्विजाग्र्या-
श्चक्रायुधस्याप्रतिमस्य तस्य।।
इयं च जांबूनदशुद्धगौरी
पार्थस्य भार्या भुजगेन्द्रकन्या।
चित्राङ्गदा चैव नरेन्द्रकन्या
यैषा सवर्णार्द्रमधूकपुष्पैः।।
इयं स्वसा राजचमूपतेश्च
प्रवृद्धनीलोत्पलदामवर्णा।
पस्पर्ध कृष्णेन सदा नृपो यो
वृकोदरस्यैष परिग्रहोऽग्र्यः।।
इयं च राज्ञो मगधाधिपस्य
सुता जरासंध इति श्रुतस्य।
यवीयसो माद्रवतीसुतस्य
भार्या मता चम्पकदामगौरी।।
इन्दीवरश्यामतनुः स्थिता तु
यैषा पराऽऽसन्नतरोर्लतेव।
भार्या मता माद्रवतीसुतस्य
ज्येष्ठस्य सेयं कमलायताक्षी।।
इयं तु निष्टप्तसुवर्णगौरी
राज्ञो विराटस्य सुता सपुत्रा।
भार्याऽभिमन्योर्निहतो रणे यो
द्रोणादिभिस्तैर्विरथो रथस्थैः।।
एतास्तु सीमन्तशिरोरुहा याः
शुक्लोत्तरीया नरराजपत्न्यः।
राज्ञोस्य वृद्धस्य परंशताख्याः
स्नुषा नृवीराहतपुत्रनाथाः।।
क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च।।'
वैशम्पायन उवाच।
एवं स राजा कुरुवृद्धवर्यः
समागतस्तैर्नरदेवपुत्रैः।
पप्रच्छ सर्वं कुशलं तदानीं
गतेषु सर्वेष्वथ तापसेषु।।
योधेषु चाप्याश्रममण्डलं त-
न्मत्वा निविष्टेषु विमुच्य पत्रम्।
स्त्रीवृद्धबाले च सुसंनिविष्टे
यथार्हतस्तान्कुशलान्यपृच्छत्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि सप्तविंशोऽध्यायः।। 27 ।।