आश्रमवासिकपर्व

अध्यायः २६

Asramavasika Parva (Sanskrit) · Adhyaya 26
अक्षर का आकार

वैशम्पायन उवाच।

ततस्ते पाण्डवा दूरादवतीर्य पदातयः।
अभिजग्मुर्नरपतेराश्रमं विनयानताः।।

स च योधजनः सर्वो ये च राष्ट्रनिवासिनः।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा।।

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्।।

ततस्तत्र समाजग्मुस्तापसा नियतव्रताः।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः।।

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः।।

ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम्।
पुष्पाणामुदकुंभस्य चार्थे गत इति प्रभो।।

तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः।।

ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा।।

सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन्।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम्।।

बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम्।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम्।।

अनन्तरं च राजानं भीमसेनमथार्जुनम्।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे।।

सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः।
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि।
`तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः।।'

राजा तान्स्वरयोगेन स्पर्शेन च महामनाः।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः।।

ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्।
उपतस्थुर्महात्मानो मातरं च यथाविधि।।

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः।।

तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम्।।

निवेदयामास तदा जनं तन्नामगोत्रतः।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत्।।

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः।
राजाऽऽत्मानं गृहगतं पुरेवि गजसाह्वये।।

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत।।

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम्।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि षड्विंशोऽध्यायः।। 26 ।।