आश्रमवासिकपर्व

अध्यायः २५

Asramavasika Parva (Sanskrit) · Adhyaya 25
अक्षर का आकार

वैशम्पायन उवाच।

आज्ञापयामास ततः सेनां भरतसत्तमः।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः।।

योगोयोग इति प्रीत्या ततः शब्दो महानभूत्।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति।।

केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः।।

गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप।
पदातयस्तथैवान्ये नखरप्रासयोधिनः।।

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदक्षवः।।

स चापि राजवचनादाचार्यो गौतमः कृपः।
सेनामादाय सेनानीः प्रययावाश्रमं प्रति।।

ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः।।

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
रतानीकेन महता निर्जगाम कुरूद्वहः।।

गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः।।

माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ।।

अर्जुनश्च महातेजा रथेनादित्यवर्चसा।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्।।

द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु।।

समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ।।

नदीतीरेषु रम्येषु सरःसु च विशाम्पते।
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः।।

युयुत्सुश्च महातेजा धौम्यश्चैवि पुरोहितः।
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः।।

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्।
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम्।।

स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह।।

ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा।
विवेश सुमहानादैरापूर्य भरतर्षभ।।

।। इति श्रीमन्महाभारते आश्रमिवासिकपर्वणि
आश्रमिवासपर्वणि पञ्चविंशोऽध्यायः।। 25 ।।