आश्रमवासिकपर्व

अध्यायः २४

Asramavasika Parva (Sanskrit) · Adhyaya 24
अक्षर का आकार

युधिष्ठिरेण वनस्थकुन्तीधृतराष्ट्रादिदिदृक्ष्या द्रौपद्यादिभिः पौरैर्भ्रातृभिश्च सह वनंप्रति प्रस्थानम्।। 1 ।।

वैशम्पायन उवाच।

एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः।
स्मरन्तो मातरं वीरा बभूवुर्भशदुःखिताः।।

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे।।

प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन्।।

ते स्म वीरा दुराधर्षा गांभीर्ये सागरोपमाः।
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्।।

अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा।।

कथं च स महीपालो हतपुत्रो निराश्रयः।
पत्न्या सह वसत्येको वने श्वापदसेविते।।

सा च देवी महाभागा गान्धारी हतबान्धवा।
पतिमन्धं कथं वृद्धमन्वेति विजने वने।।

एवं तेषां कथयतामौत्सुक्यमभवत्तदा।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया।।

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्।
अहो मे भवतो दृष्टं हृदयं गमनं प्रति।

न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्।।

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्।
जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्।।

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्।
कदानुजननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्।।

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ।
कुन्ती राजसुता यत्र वसत्यसुखिता वने।।

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा।
उवाच देवी राजानमभिपूज्याभिनन्द्य च।

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप।।

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः।
योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि।।

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वसुरस्च च।।

इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ।
सेनाध्यक्षान्समानाय्य सर्वानिदमुवाच ह।।

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्।
द्रक्ष्यामि वनसंस्थं च धृताष्ट्रं महीपतिम्।।

स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः।।

शकटापणवेशाश्च कोशः शिल्पिन एव च।
निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति।।

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्।
अनावृतः सुविहितः स च यातु सुरक्षितः।।

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम।।

प्रयाणं घुष्यतां चैव श्वोभूत इति माचिरम्।
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च।

एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः।
श्वोभूते निर्ययौ राजन्सस्त्रीवृद्धपुरःसरः।।

स बहिर्दिवसानेव जनौघं परिपालयन्।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।