आश्रमवासिकपर्व

अध्यायः २३

Asramavasika Parva (Sanskrit) · Adhyaya 23
अक्षर का आकार

वैशम्पायन उवाच।

वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः।।

तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति।।

कथं न राजा वृद्धः स वने वसति निर्जने।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्।।

सुखार्हः स हि राजर्षिरसुखी तद्वनं महत्।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः।।

सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा।
राज्यश्रियं परित्यज्य वनं सा समरोचयत्।।

विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान्।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः।।

आकुमारं च पौरास्ते चिन्ताशोकसमाहताः।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम्।।

पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे।।

तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्।
गान्धारीं च महाभागां विदुरं च महामतिम्।।

नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा।
न राज्ये न च नारीषु न वेदाध्ययनेषु च।।

परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम्।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः।।

अभिमन्योश्च बालस्य विनाशं रणमूर्धनि।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः।।

तथैव द्रौपदेयानामन्येषां सुहृदामपि।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्।।

हतप्रवीरां पृथिवीं हृतरत्नां च भारत।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे।।

द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत्।।

वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम्।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि त्रयोविंशोऽध्यायः।। 23 ।।