आश्रमवासिकपर्व

अध्यायः २२

Asramavasika Parva (Sanskrit) · Adhyaya 22
अक्षर का आकार

वैशम्पायन उवाच।

नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्।।

अहो भगवता श्रद्धा कुरुराजस्य वर्धिता।
सर्वस्य च जनस्यास्य मम चैव महाद्युते।।

अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित।।

सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा।
युक्तः पश्यसि विप्रर्षे गतयो विविधा नृणाम्।।

उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने।।

स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो।
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः।।

इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्।
व्याजहार सभामध्ये दिव्यदर्शी महातपाः।।

नारद उवाच।

यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्।।

तत्रेयं धृतराष्ट्रस्य कथा समभवन्नप।
तपसो दुष्करस्यास्य यदयं तपते नृपः।।

तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम्।
वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः।।

ततः कुबेरभवनं गान्धारीसहितो नृपः।
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः।।

कामगेन विमानेन दिव्याभरणभूषितः।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः।।

सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्।
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात्।।

देवगुह्यमिदं प्रीत्या मया वः कथितं महत्।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः।।

वैशम्पायन उवाच।

इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः।।

एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वाविंशोऽध्यायः।। 22 ।।