आश्रमवासिकपर्व
अध्यायः २१
वैशम्पायन उवाच।
ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः।
नारदः पर्वतश्चैव देवलश्च महातपाः।।
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः।।
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया।।
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्।।
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्।।
नारद उवाच।
पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः।
सहस्रचित्यि इत्युक्तः शतयूपपितामहः।।
स पुत्रे राज्यमासज्ज्यि ज्येष्ठे परमधार्मिके।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः।।
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः।
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः।।
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः।।
तथा शैलालयो राजा भगत्तपितामहः।
तपोबलेनैव नृपो महेन्द्रसदनं गतः।।
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः।
स चापि तपसा लेभे नाकपृष्ठमितो गतः।।
अस्मिन्नरण्ये नृपते मांधातुरपि चात्मजः।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्।।
भार्या समभवद्यस्य नर्मदा सरितां वरा।
सोस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः।।
शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान्।।
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि।।
त्वं चापि राजशार्दूल तपसोन्ते श्रिया वृतः।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनां
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति।।
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव।।
युधिष्ठिरस्य जननी स हि धर्मः सनातनः।
वयमेतत्प्रपश्यामो नृपते दिव्यवक्षुषाः।।
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्।
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति।।
वैशम्पायन उवाच।
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा
सार्धं पत्न्या प्रीतिमान्सम्बभूव।
विद्वान्वाक्यं नारदस्य प्रशस्य
चक्रे पूजां चातुलां नारदाय।।
ततः सर्वे नारदं विप्रसङ्घाः
सम्पूजयामासुरतीव राजन्।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै
पुनःपुनः सम्प्रहृष्टास्तदानीम्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि एकविंशोऽध्यायः।। 21 ।।