आश्रमवासिकपर्व

अध्यायः २०

Asramavasika Parva (Sanskrit) · Adhyaya 20
अक्षर का आकार

वैशम्पायन उवाच।

ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते।
निवासमकरोद्राजा विदुरस्य मते स्थितः।।

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः।
क्षत्रविट्शूद्रसङ्खाश्च बहवो भरतर्षभ।।

स तैः परिवृतो राजा कथाभिः परिनन्द्य तान्।
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च।।

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च।
चकार विधिवच्छौचं गान्धारी च यशस्विनी।।

ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः।।

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा।
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत्।।

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः।।

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः।।

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः।
आससादाथ राजर्षिं शतयूपं मनीषिणम्।।

स हि राजा महानासीत्केकयेषु परंपतः।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्।।

तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम्।।

स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा।।

तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः।
आरण्यकं महाराज व्यासस्यानुमते तदा।।

एवं च तपसा राजन्धृतराष्ट्रो महामनाः।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा।।

तथैव देवी गान्धारी वल्कलाजिनधारिणी।
कुन्त्या सह महाराजि समानव्रतचारिणी।।

कर्मणा मनसा वाचा चक्षुषा चैव ते नृप।
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः।।

त्वगस्थिभूतः परिशुष्कमांसो
जटाजिनी वल्कलसंवृताङ्गः।
स पार्तिवस्तत्र तपश्चचार
महर्षिवत्तीव्रमपेतमोहः।।

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः
ससंजयस्तं नृपतिं सदारम्।
उपाचरद्धोरतपोर्जितात्मा
तदा कृशो वल्कलचीरवासाः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि विंशोऽध्यायः।। 20 ।।