आश्रमवासिकपर्व

अध्यायः १३

Asramavasika Parva (Sanskrit) · Adhyaya 13
अक्षर का आकार

अर्जुन उवाच।

भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वमुक्तुमुत्सहे।
धृताराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति।।

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि।
असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः।।

इति तस्य वचः श्रुत्वा फल्गुनस्य महात्मनः।
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः।।

इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्।
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्।।

भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्।
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः।।

वैशम्पायन उवाच।

इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्।
भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम्।।

ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः।
न भीमसेन कोपं स नृपतिः कर्तुमर्हति।।

परिक्लिष्टो हि भीमस्तु हिमवृष्ट्यातपादिभिः।
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव।।

किंतु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्।।
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति।।

यन्मात्सर्यमयं भीमः करोति भृशदुःखितः।
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः।।

यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि।
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः।।

ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः।
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः।।

इदं चापि शरीरं मे तवायत्तं जनाधिप।
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः।।

।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि त्रयोदशोऽध्यायः।।। 13 ।।