आश्रमवासिकपर्व
अध्यायः १४
वैशम्पायन उवाच।
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः।
धृतराष्ट्रमुपेत्यैव वाक्यमाह महार्थवत्।।
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः।।
बीभत्सुश्च महातेजा निवेदयति ते गृहान्।
वसु तस्य गृहे यच्च प्राणानपि च केवलान्।।
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च।
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन।।
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत।
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन्।।
र राजन्धर्मशीलेन राज्ञा बीभत्सुना तथा।
अनुनीतो महाबाहुः सौहृदे स्थापितोपि च।।
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत्।।
एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप।
शुद्धे क्षत्रियधर्मे न निरतोऽयं वृकोदरः।।
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः।
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत्।।
तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिवः।
त्वमीश्वरो नो राज्यस्य प्राणानामपि भारत।।
ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम्।
इतो रत्नानि गाश्चैव दासीदासमजाविकम्।।
अर्चयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु।
दीनान्धकृपणेभ्यश्च तत्रतत्र नृपाज्ञया।।
बह्वन्नरसपानाढ्याः सभा विदुर कारय।
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु।।
इति मामब्रवीद्राजा पार्थश्चैव धनंजयः।
यदत्रानन्तरं कार्यं तद्भवम्ववक्तुमर्हति।।
इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान्।
मनश्चक्रे महादाने कार्तिक्यां जनमेजय।।
।। इती श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि चतुर्दशोऽध्यायः।। 14 ।।