आश्रमवासिकपर्व
अध्यायः १२
वैशम्पायन उवाच।
ततो रजन्यां व्युष्टायां धृतराष्ट्रोंऽबिकासुतः।
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्।।
स गत्वा राजवचनादुवाचाच्युतमीश्वरम्।
युधिष्ठि महातेजाः सर्वबुद्धिमतांवरः।।
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः।
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम्।।
स त्वां कुरुकुलश्रेष्ठ किञ्चिर्थमभीप्सति।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः।।
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः।
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः।
यदि चाप्यनुजानीषे सैन्धवापशदस्य च।।
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः।
हृष्टःक सम्पूजयामास गुडोकेशश्च पाण्डवः।।
न च भीमो द्दढक्रोधस्तद्वचो जगृहे तदा।
विदुरस्य महातेजा दुर्योधनकृतं स्मरन्।।
अभिप्रायं विदित्वा तु भीमतसेनस्य फल्गुनः।
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम्।।
भीम राजा पिता वृद्धो वनवासाय दीक्षितः।
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्।।
भवता निर्जितं वित्तं दातुमिच्छति कौरवः।
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि।।
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते।
याचितो यः पुराऽस्माभिः पश्य कालस्य पर्ययम्।।
योसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः।
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति।।
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्।
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुजः।।
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्।
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ।।
एवं ब्रुवाणं बीभत्सुं धर्मराजोऽप्यपूजयत्।
भीमसेनस्तु सक्रोधमुवाच विजयं तदा।।
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फल्गुन।
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च।।
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः।
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति।।
श्राद्धानि पुरुषव्याघ्र मा प्रदात्कौरवो नृपः।
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः।।
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः।
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः।।
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्।
अज्ञातवासगमनं द्रौपदीशोकवर्धनम्।।
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मद्गोचरो गतः।
कृष्णाजिनोपसंवीतो हृताभरणभूषणः।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्।।
क्व तदा द्रोणभिष्मौ तौ सोमदत्तोपि वाऽभवत्।
यत्र द्वादश वर्षाणि वने वन्येन जीवथ।
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते।।
किं ते तद्विस्मृतं पार्थक यदेष कुलपांसनः।
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत।।
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः।
उवाच वचनं धीमाञ्जोषमास्स्वेति भर्त्सयन्।।
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
आश्रमवासपर्वणि द्वादशोऽध्यायः।। 12 ।।