आश्रमवासिकपर्व
अध्यायः ११
वैशम्पायन उवाच।
एवमुक्तास्तु ते तेन पौरजानपदा जनाः।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्।।
तूष्णींभूतांस्ततस्तांस्तु वाष्पकण्ठान्महीपतिः।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत।।
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः।।
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै।
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह।।
सोहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ।।
वैशम्पायन उवाच।
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः।।
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्।।
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्।
दुःखं संधारयन्तो हि नष्टसंज्ञा हवाभवन्।।
ते विनीय तमायासं धृतराष्ट्रवियोगजम्।
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत।।
ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः।
एकस्मिन्ब्राह्मणे कार्यमावेस्योचुर्नराधिपम्।।
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः।
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे।।
अनुमान्य महाराजं सदः समनुभाष्य च।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह।।
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्।
वक्ष्यामि तदहं वीर तज्जुषस्व नपाधिप।।
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम्।।
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत्।।
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः।।
`प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः।'
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः।
तथा कुरु महाराज स हि नः परमो गुरुः।।
त्यक्ता वयं तु भवता दुःखशोकपरायणाः।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः।।
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च।
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव।
भवद्बुद्धियुजा चैवि पाण्डुना पृथिवीक्षिता।।
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः।
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप।
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे।
वयसा स्म यथा सम्यग्भवतो विदितं तथा।।
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप।।
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्।
कुरुसंवरणादीनां भरतस्य च धीमतः।।
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते।।
उषिताः स्म सुखं नित्यं भवता परिपालिताः।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते।।
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति।
भन्तमनुनेष्यामि तत्रापि कुरुनन्दन।।
न तद्दुर्योधनकृतं न च तद्भवता कृतम्।
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः।।
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्।
दैवं पुरुषकारेणि न शक्यमपि बाधितुम्।।
अक्षौहिण्यो महाराज दशाष्टौ च समागताः।
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः।।
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना।
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे।।
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा।
न च क्षयोऽयं नृपते क्रते दैवबलादभूत्।।
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः।
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना।।
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः।
पृथिवी निहता सर्वा सहया सरथद्विपा।।
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्।
न भवान्न च ते भृत्या न कर्णो न च सौबलः।।
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः।
सर्वं दैवकृतं विद्धि कोत्र किं वक्तुमर्हति।।
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः।
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्।।
लभतां वीरलोकं स ससहायो नराधिपः।
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्।
प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः।
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च।।
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः।
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः।।
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च।
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्।।
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः।
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः।।
दीर्घदर्शीं मृदुर्दान्तः सदा वैश्रवणो यथा।
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः।।
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः।
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा।।
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै।
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः।।
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः।।
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती।
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्।।
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्।
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः।।
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः।।
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्।
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ।।
वैशम्पायन उवाच।
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम्।
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान्।।
धृतराष्ट्राश्च तद्वाक्यमभिपूज्य पुनःपुनः।
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः।।
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा।
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ।।
ततो विवेश भवनं गान्धार्या सहितो निजम्।
आगतायां च शर्वर्यां सुखं शेते नराधिपः।।
।। इति श्रीमन्महाभारते आमश्रवासिकपर्वणि
आश्रमवासपर्वणि एकादशोऽध्यायः।। 11 ।।