आरण्यकपर्व

अध्यायः ९२

Aranyaka Parva (Sanskrit) · Adhyaya 92
अक्षर का आकार

युधिष्ठिर उवाच।

न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम।
तथाऽस्मि दुःखसंतप्तो यथा नान्यो महीपतिः ।।

परांश्च निर्गुणान्मन्ये न च ध्रमगतानपि।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते के न हेतुना ।।

लोमश उवाच।

नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन।
यदधर्मेण वर्धेयुरधर्मरुचयो जनाः ।।

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ।।

`यत्र धर्मेण वर्धन्ते राजानो राजसत्तम।
सर्वान्सपत्नान्वाधन्ते राज्यं चैषां विवर्धते' ।।

मया हि दृष्टा दैतेया दानवाश्च महीपते।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ।।

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ।।

तीर्तानि देवा विविशुर्नाविशन्भारतासुराः।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ।।

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत।
क्रोधादहीस्ततोऽलञ्जा वृत्तं तेषां ततोऽनशत् ।।

तानलज्जान्गतश्रीकान्हीनवृत्तान्वृथाव्रतान्।
क्षमा लक्ष्मीः स्वधर्मश्च नचिरात्प्रजहुस्ततः ।।

लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ।।

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः।
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ।।

तानलक्ष्मीसमाविष्टान्दानवान्कलिनाहतान्।
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ।।
मानाभिभूतानचिराद्विनाशः समपद्यत ।।

निर्यशस्कास्तथा दैत्याः कृत्स्नशो विलयं गताः।
`अधर्मरुचयोराजन्नलक्ष्म्या समधिष्ठिताः' ।।

देवास्तु सागरांश्चैव सरितश्च सरांसि च।
अभ्यगच्छन्धर्मशीलाः पुण्यान्यावतनानि च ।।

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव।
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ।।

एवमादानवन्तश् निरादानाश्च सर्वशः।
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ।।

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः।
पुनर्वेत्स्वसि तां लक्ष्मीमेष पन्थाः सनातनः ।।

यथैव हि नृगो राजा शिविरौशीनरो यथा।
भगीरयो वसुमना गयः पूरुः पुरूरवाः ।।

चरमाणास्तपो नित्यंस्पर्शनादम्भसश्च ते।
तीर्थामिगमनात्पूता दर्शनाच्च महात्मनाम् ।।

अलभन्त यशः पुण्यं धनानि च विशांपते।
तथा त्वमपि राजेन्द्र लब्ध्वा सुविपुलां श्रियम् ।।

यथा चेक्ष्वाकुरभवत्सपुत्रजनबान्धवः।
मुचुकुन्दोऽथ मांधाता मरुत्तश्च महीपतिः ।।

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात्।
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसि ।।

धार्तराष्ट्रास्त्वधर्मेण मोहिन च वशीकृताः।
नचिराद्वै विनङ्क्ष्यन्ति दैत्या इव न संशयः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि द्विनवतितमोऽध्यायः ।। 92 ।।