आरण्यकपर्व

अध्यायः ९३

Aranyaka Parva (Sanskrit) · Adhyaya 93
अक्षर का आकार

वैशंपायन उवाच।

ने तथा सहिता वीरा वसन्तस्तत्रतत्र ह।
क्रमेण पृथिवीपाल नैमिषारण्यमागताः ।।

तत्स्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप।
कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ।।

तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनःपुनः।
कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च भारत ।।

कालकोट्यां विपप्रस्थे गिरावुष्य च कौरवाः।
बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ।।

प्रयागे देवयजने देवानां पृथिवीपते।
ऊषुगप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ।।

गङ्गायमुनयोश्चैव संगमे सत्यसंगराः।
विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ।।

तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः।
जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ।।

तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम्।
संतर्पयन्तः सततं वन्येन हविषा द्विजान् ।।

ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम्।
राजर्षिणा पुण्यकृता गयेनानुपमद्युते ।।

नगो गयशिरो यत्र पुण्या चैव महानदी।
वानीरमालिनी रम्या नदी पुलिनशोभिता ।।

दिव्यं पवित्रकूटं च पवित्रधरणीधरम्।
ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोतुलम् ।।

अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति।
रउवास च स्वयं तत्र धर्मराजः सनातनः ।।

सर्वासां सरितां चैव समुद्भेदो विशांपते।
यत्रसंनिहितो नित्यं महादेवः पिनाकधृक् ।।

`परिपूर्णः परंज्योतिः परमात्मा सनातनः।
ब्रह्मादिभिरुपास्योऽयं भगवान्परमेश्वरः ।।

तं प्रणम्य महादेवं चतुर्वर्गफलप्रदम्।
रसिद्धिक्षेत्रमिदं मत्वासर्वेषांमोक्षकाङ्क्षिणाम् ।।

तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे।
ऋषियज्ञेन महता यत्राक्षयवटो महान्।
अक्षये देवयजने अक्षयं यत्रवै फलम् ।।

ये तु तत्रोपवासांस्तु चक्रुर्निश्चितमानसाः।
ब्राह्मणास्तत्रशतशः समाजग्मुस्तपोधनाः ।।

चातुर्मास्येनायजन्त आर्षेण विधिना तदा।
तत्र विद्यातपोवृद्धा ब्राह्मणा वेदपारगाः।
कथां प्रचक्रिरे पुण्यां सदसिस्था महात्मनाम् ।।

तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः।
शमठोऽकथयद्राजन्नाधूर्तरजसं गयम् ।।

शमठ उवाच।

आधूर्तरजसः पुत्रो गयो राजर्षिसत्तमः।
पुण्यानि तस्य कर्माणि तानि मे शृणु भारत ।।

यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः।
यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ।।

घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा।
व्यञ्‍जनानां प्रवाहाश्च महार्हाणां सहस्रशः ।।

अहन्यहनि चाप्येवं याचतां संप्रदीयते।
अन्ये च ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ।।

तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः।
न च प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत ।।

पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा।
आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ।।

यत्रस्म गाथा गायन्ति मनुष्या मरतर्षभ।
अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ।।

गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः।
तत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ।।

न तत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे।
गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ।।

कथं तु देवा हविषा गयेन परितर्पिताः।
पुन शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ।।

सिकता वा यथा लोके यथा वा दिवि तारकाः।
यथा वा वर्षतोधारा असंख्येयाः स्म केनचित्।
तथा गणयितुं शक्या गययज्ञे न दक्षिणाः ।।

एवंविधाः सुबहवस्तस्य यज्ञा महीपतेः।
बभूवुरस्य सरसः समीपे कुरुनन्दन ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि त्रिनवतितमोऽध्यायः ।। 93 ।।