आरण्यकपर्व

अध्यायः ९१

Aranyaka Parva (Sanskrit) · Adhyaya 91
अक्षर का आकार

वैशंपायन उवाच।

ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः।
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ।।

राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह।
देवर्षिणा च सहितो लोमशेन महात्मना ।।

अस्मानपि महाराज नेतुमर्हसि पाण्डव।
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ।।

श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च।
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ।।

भवतो भ्रातरः शूरा धनुर्धरवराः सदा।
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ।।

भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम्।
तीर्थानां पृथिवीपाल वनानां च विशांपते ।।

तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लताः।
भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ।।

भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत।
अष्टकस्य च राजर्षेर्लोमपादस् चैव ह ।।

भरतस्य च वीरस्य सार्वभौमस्य पार्तिव।
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ।।

प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्।
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च पर्वतान् ।।

त्वया सह महीपाल द्रष्टुमिच्छामहे वयम्।
`भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च' ।।

यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप।
कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ।।

तीर्तानि हि महाबाहो तपोविघ्नकरैः सदा।
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ।।

तीर्थान्युक्तानि धौम्येन नारदेन च धीमता।
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ।।

विधिवत्तानि सर्वाणि पर्यटस्व नराधिप।
धूतपाप्मा सहास्माभिर्लोमशेनाबिपालितः ।।

स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः।
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ।।

बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः।
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ।।

ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी।
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ।।

अथ व्यासो महाभागस्तथा पर्वतनारदौ।
दाम्यके पाण्डवंद्रष्टुं समाजग्मुर्मनीषिणः ।।

तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि।
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ।।

युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम्।
मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ।।

शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम्।
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ।।

मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप।
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ।।

ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः।
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ।।

ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः।
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ।।

लोमशस्योपसंगृह्य पादौ द्वैपायनस् च।
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ।।

धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः।
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ।।

कठिनानि समादाय चीराजिनजटाधराः।
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ।।

इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः।
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ।।

सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः।
प्राङ्युखाः प्रययुर्वीराः पाण्डवा जनमेजय ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
तीर्थयात्रापर्वणि एकनवतितमोऽध्यायः ।। 91 ।।