आरण्यकपर्व

अध्यायः ३०३

Aranyaka Parva (Sanskrit) · Adhyaya 303
अक्षर का आकार

कर्ण उवाच।

भगवन्तमहं भक्तो यथा मां वेत्थ गोपते।
तथा परमतिग्मांशो नास्त्यदेयं कथंचन ।।

न मे दारा न मेपुत्रा न चात्मा सुहृदो न च।
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ।।

इष्टानां च महात्मानो भक्तानां च न संशयः।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ।।

इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि।
जानीत इतिवै कृत्वा भगवानाह मद्धितम् ।।

भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ।।

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ।।

प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा।
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति ।।

व्येतु संतापजं दुःखं तव भास्कर मानसम्।
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम् ।।

तवापि विदितं देव ममाप्यस्त्रबलं महत्।
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ।।

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम।
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ।।

सूर्य उवाच।

यदि तात ददास्येते वज्रिणे कुण्डले शुभे।
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ।।

नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ।।

अर्जुनन विनाशं हि तव दानवसूदनः।
प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति ।।

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः।
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ।।

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ।।

इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले।
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् ।।

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ।।

वैशंपायन उवाच।

एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत।
`कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव ।।

प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत।
चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर ।।

यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप।
शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह ।।

स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ।
ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत् ।।

विधिना राजशार्दूल मुहूर्तमजपत्तदा'।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ।।

यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ।।

तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ।।

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा।
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
कुण्डलाहरणपर्वणि
त्र्यधिकत्रिशततमोऽध्यायः ।। 303 ।।