आरण्यकपर्व

अध्यायः ३०२

Aranyaka Parva (Sanskrit) · Adhyaya 302
अक्षर का आकार

सूर्य उवाच।

माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा।
पुत्राणामथ भार्याणामथो मातुरथो पितुः ।।

शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर।
इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ।।

यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्।
सा ते प्राणान्समादाय गमिष्यति न संशयः ।।

जीवतां कुरुते कार्यं पिता माता सुतास्तथा।
ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ।।

राजानश्च नरव्याघ्र पौरुषेण निबोध तत्।
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते ।।

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः।
मृतः कीर्तिं न जानीते जीवन्कीर्ति समश्नुते ।।

मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः।
अहं तु त्वां ब्रवीम्येतद्भक्तोसीति हितेप्सया ।।

भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना।
भक्तोयं परया भक्त्या मामित्येव महाभुज ।।

ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम।
अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम्।
अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ।।

देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ।
नस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ।।

पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्।
माऽस्मै ते कुण्डले दद्या भिक्षिते वज्रापाणिना ।।

शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते।
विशाखयोर्मध्यगतः शशीव विमले दिवि ।।

कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्।
प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः ।।

`पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृत्'।
शक्त्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ।
विहन्तुं देवराजस् हेतुयुक्तैः पुनःपुनः ।।

उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः।
पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ।।

त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना।
सव्यसाची त्वया चेह युधि शूरः समेष्यति ।।

न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्।
विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ।।

तस्मान्न देये शख्राय त्वयैते कुण्डले शुभे।
संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
कुण्डलाहरणपर्वणि
द्व्यधिकत्रिशततमोऽध्यायः ।। 302 ।।