आरण्यकपर्व
अध्यायः ३०४
जनमेजय उवाच।
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना।
कीदृशेकुण्डले ते च कवचं रचैव कीदृशम् ।।
कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम।
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ।।
वैशंपायन उवाच।
अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः।
यादृशे कुण्डले ते च कवचं वैव यादृशम् ।।
कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः।
तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः ।।
दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव।
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ।।
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः।
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर ।।
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः।
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ।।
यथाकामं च गच्छेयमागच्छेयं तथैव च।
शय्यासने च मे राजन्नापराध्येत कश्चन ।।
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः।
एवमस्तु परंचेति पुनश्चैवमथाब्रवीत् ।।
मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी।
शीलवृत्तान्विता साध्वी नियताऽनवमानिनी ।।
उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च।
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ।।
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि।
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ।।
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति।
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ।।
त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम्।
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित् ।।
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः।
यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात् ।।
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः।
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ।।
अमानयन्हि दाण्डक्यो वातापिश्च महासुरः।
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च।
`वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः' ।।
सोयं वत्से महाभार आहितस्त्वयि सांप्रतम्।
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ।।
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि।
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ।।
तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु।
मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे ।।
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते।
सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि ।।
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति।
पृथे बालेति कृत्वा वै सुता चासिममेति च ।।
वृष्णीनां च कुले जाता शूरस् दयिता सुता।
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरास्वयम् ।।
वसुदेवस् भगिनी सुतानां प्रवरा मम।
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ।।
तादृशे हि कुले जाता कुले मम विवर्धिता।
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा ।।
दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः।
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ।।
पृथे राजकुले जन्म रूपं चापि तवाद्भुतम्।
तेन तेनासि संपन्ना समुपेता च भामिनि ।।
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि।
आराध्यवरदं विप्रं श्रेयसा योक्ष्यसे पृथे ।।
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्।
कोपिते च द्विजश्रेष्ठे कुत्स्नं दह्येत मे कुलम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
कुण्डलाहरणपर्वणि
चतुरधिकत्रिशततमोऽध्यायः ।। 304 ।।