आरण्यकपर्व
अध्यायः ३०१
जनमेजय उवाच।
यत्तत्तदा महद्ब्रह्मँल्लोमशो वाक्यमब्रवीत्।
इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम् ।।
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्।
तच्चाप्यपहरिष्यामि धनंजय इतो गते ।।
किंनु रतज्जपतांश्रेष्ठ कर्णं प्रति महद्भयम्।
आसीन्न च स धर्मात्मा कथयामास कस्यचित् ।।
वैशंपायन उवाच।
अहं ते राजशार्दूल कथयामि कथामिमाम्।
पृच्छतो भरतश्रेष्ठ शुश्रूषस्व गिरं मम ।।
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे।
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ।।
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः।
कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः ।।
महार्हे शयने वीरं स्पर्द्ध्यास्तरणसंवृते।
शयानमतिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ।।
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्।
कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत ।।
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगर्द्धिरूपवान्।
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ।।
कर्ण मद्वचनं तात शृणु सत्यभृतांवर।
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ।।
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया।
ब्राह्मणच्छद्मना कर्ण कुण्डलोपजिहीर्षया ।।
विदितं तेन शीलं ते सर्वस्य जगतस्तथा।
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ।।
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम्।
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कस्यचित् ।।
त्वां तु चैवंविधं ज्ञात्वा स्वयं वै पाकशासनः।
आगन्ता रकुण्डलार्थाय कवचं चैव भिक्षितुम् ।।
तस्मै प्रयाचमानाय न देये कुण्डले त्वया।
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ।।
कुण्डलार्थेऽब्रुवंस्तात कारणैर्बहुभिस्त्वया।
अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनःपुनः ।।
रत्नैः स्त्रीभिस्तथा गोभिर्धनैर्बहुविधैरपि।
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ।।
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे।
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपैष्यसि ।।
कवचेन समायुक्तः कुण्डलाभ्यां च मानद।
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ।।
अमृतादुत्थितं ह्येतदुभयं रत्नसंमितम्।
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ।।
कर्ण उवाच।
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम्।
कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ।।
ब्रह्मण उवाच।
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये।
कुरुष्वैतद्वयो मे त्वमेतच्छ्रेयः परं हि ते ।।
कर्ण उवाच।
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः।
प्रवक्ताऽद्य हितान्वेषी शृणु चेदं वचो मम ।।
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्।
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ।।
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नं विभावसो।
यथाऽहं द्विजमुख्येभ्यो दद्यां प्राणानपिध्रुवम् ।।
यद्यागच्छति मां शक्रो ब्राह्मणच्छद्मना वृतः।
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ।।
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्।
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ।।
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम्।
युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ।।
सोहमिन्द्राय दास्यामि कुण्डले सह वर्मणा।
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ।।
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम्।
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ।।
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन्।
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ।।
कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत्।
अकीर्तिर्जीवितं हन्ति जीवतोपि शरीरिणः ।।
अयंपुराणः श्लोको हि स्वयं गीतो विभावसो।
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य ह ।।
पुरुषस्य परे लोके कीर्तिरेव परायणम्।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ।।
सोहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम्।
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ।।
हुत्वा शरीरं रसंग्रामे कृत्वा कर्म सुदुष्करम्।
विजित्य च परानाजौ यशः प्राप्स्यामि केवलम् ।।
भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम्।
वृद्धान्वालान्द्विजातींश्च मोक्षयित्वा महाभयात् ।।
प्राप्स्यामि परमं लोके यशः स्वर्ग्यमनुत्तमम्।
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्वि मे व्रतम् ।।
सो हं दत्त्वा मघवते भिक्षामेतामनुत्तमाम्।
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ।।
।। इति श्रीमन्महाभारते अरण्यपर्वणि
कुण्डलाहरणपर्वणि एकाधिकत्रिशततमोऽध्यायः ।। 301 ।।