आरण्यकपर्व

अध्यायः ३००

Aranyaka Parva (Sanskrit) · Adhyaya 300
अक्षर का आकार

मार्कण्डेय उवाच।

तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले।
कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः ।।

तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः।
द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः ।।

ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम्।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम् ।।

तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम्।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम् ।।

ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति।
सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति ।।

अनेन निश्चयेनेह वयं प्रस्थापिता नृप।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम् ।।

प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः।
अध्यास्स्व चिररात्राय पितृपैतामहं पदम् ।।

मार्कण्डेय उवाच।

चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम्।
मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः ।।

तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ।।

शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा।
नरयुक्तेन यानेन प्रययौ सेनया वृता ।।

ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ।।

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ।।

भ्रातृणां सोदराणां च तथैवास्याभवच्छतम्।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम् ।।

एवमात्मा पिता माता श्वश्रूः श्वशुर एव च।
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं ।।

तथैवैषा हि कल्याणी द्रौपदी शीलसंमता।
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना ।।

वैशंपायन उवाच।

एवं स पाण्डवस्तेन अनुनीतो महात्मना।
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा ।।

यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम्।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
पतिव्रतामाहात्म्यपर्वणि त्रिशततमोऽध्यायः ।। 300 ।।