आरण्यकपर्व

अध्यायः ३

Aranyaka Parva (Sanskrit) · Adhyaya 3
अक्षर का आकार

वैशंपायन उवाच।

शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिः।
`प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम्।'
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीषिदम् ।।

प्रस्थिताननुयातारो ब्राह्मणा वेदपारनाः।
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः ।।

परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे।
कथमत्र मया कार्यं तद्बूहि भगवन्मम ।।

वैशंपायन उवाच।

मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम्।
युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः ।।

पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्।
ततोऽनुकम्पंयां तेषां सविता स्वपिता यथा ।।

गत्वोत्तसयणं तेजो रसानुद्धृत्य रश्मिभिः।
दक्षिणायनमावृत्तो महीं वर्षति वारिणा ।।

क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीयतिः।
रवेस्तेजः समुद्धृत्य जनयामास वारिणा ।।

निषिक्तश्चन्द्रतेजोभिः सूयते जगतो रविः।
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ।।

एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्।
नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज ।।

राजानो हि महात्मानो योनिकर्मविशोधिताः।
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ।।

भौमेन कार्तवीर्येण वैन्येन नहुषेण च।
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ।।

तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः।
तप आस्थाय धर्मेण द्विजातीन्भर भारत ।।

वैशंपायन उवाच।

एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः।
ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम्।
अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् ।।

[विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः।
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ।।]

पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्।
सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् ।।

गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्।
[शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः

युधिष्ठिर उवाच।

त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावतां ।।

त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम्।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ।।

त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते।
त्वयापवित्रीक्रियते निर्व्याजं पाल्यते त्वया ।।

त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः।
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित ।।

तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः।
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ।।

त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वासिद्धिमागताः ।।

उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ।।

गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ।।

वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ।।

सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ।।

सन्ति चान्यानि सत्वानिवीर्यवन्ति महान्ति च।
न तु तेषां तथा दीप्तिः प्रभावो वायथा तव ।।

ज्योतीषित्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः।
त्वयिसत्त्वं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः ।।

त्वत्तेजसा कृतंचक्रं सुनाभं विश्वकर्मणा।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ।।

त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ।।

तपन्त्यन्ते दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ।।

न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः।
शीतवातार्दितं लोकं यथा तव मरीचयः ।।

त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ।।

तव यद्युदयो न स्यादन्धं जगदिदं भवेत्।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ।।

आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ।।

यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम्।
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ।।

मनूनां मनुपुत्राणां जगतोऽमानवस्य च।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ।।

संहारकाले संप्राप्ते तव क्रोधविनिःसृतः।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ।।

त्वद्दीधितिसमुत्पन्ना नानावर्ण महाघनाः।
सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम् ।।

कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ।।

त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं ।।

त्वं हंसः सविता भानुरंशुमाली वृषाकपिः।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ।।

सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ।।

दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ।।

सप्तम्यागथवा षष्ठ्यां भक्त्या पूजां करोति यः।
अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् ।।

न तेषामापदः सन्ति नाधयो व्याधयस्तथा।
ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम् ।।

सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ।।

त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः।
अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ।।

येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ।।

क्षुभया सहिता मैत्री याश्चान्या भूतमातरः।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ।।]

वैशंपायन उवाच।

कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्।
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ।।

विवस्वानुवाच।

यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि।
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ।।

गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप।
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ।।

फलमूलामिषं शाकं संस्कृतं यन्महानसे।
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ।।

वैशंपायन उवाच।

एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ।।

लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्।
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे ।।

द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः।
महानसे तदान्नं तु साधयामास पाण्डवः ।।

संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्।
अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान् ।।

भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि।
शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः ।।

युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती।
[द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ।।]

एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः।
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः ।।

पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु।
इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः ।।

ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः।
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ।।

`जनमेजय उवाच।

पुष्पोपहारबलिभिर्बहुशश्च यथाविधि।
सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः ।।

स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः।
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ।।

मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम्।
भगवन्नास्ति चेद्गुद्यं तच्च मे ब्रूहि सांप्रतम् ।।'

वैशंपायन उवाच।

शृणुष्वांवहितो राजञ्शुचिर्भूत्वा समाहितः।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ।।

धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ।।

सूर्योऽर्यभा भगस्त्वष्टा पूषाऽर्कः सविता रविः।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ।।

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ।।

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ।।

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः।
धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः ।।

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः।
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ।।

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ।।

लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः।
वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा ।।

भूताश्रयो भूतपति- सर्वभूतनिषेवितः।
`मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः।'
[स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।]
जयो विशालो वरदः सर्वधातुनिषेचिता ।।

मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ।।

द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।।

देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ।।

एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः।
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ।।

शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम्।
धौम्याद्युधिष्ठरः प्राप्य सर्वान्कमानवाप्तवान् ।।

सुरगणपितृयक्षसेवितं
ह्यसुरनिशाचरसिद्धवन्दितम्।
वरकनकहुताशनप्रभं
त्वमपि मनस्यभिधेहि भास्करम् ।।

सूर्योदये यः सुसमाहितः पठे-
त्त पुत्रदारान्धनरत्नसंचयान्।
लभेत जातिस्मरतां नरः सदा
धृतिं च मेधां च स विन्दते पुमान् ।।

[इमं स्तवं देववरस्य यो नरः
प्रकीर्तयेच्छुचिसुमनाः समाहितः।
स मुच्यते शोकदवाग्निसागरा-
ल्लभेत कामान्मनसा यथेप्सितान् ।।

[इमं स्तवं प्रयतमनाः समाधिना
पछेदिहान्योऽपि वरं समर्थयन्।
तत्त्स्य दद्याच्च रविर्मनीषितं
तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम् ।।

यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः ।।

उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ।।

संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु।
मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ।।]

।। इति श्रीमन्महाभारते अरण्यपर्वणि
किर्मीरवधपर्वणि तृतीयोऽध्यायः ।। 3 ।।