आरण्यकपर्व

अध्यायः २

Aranyaka Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

वैशंपायन उवाच।

प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः।
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ।।

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः।
फलमूलामिषाहारा वनं यास्याम दुःखिताः ।।

वनं च दोषबहुलं बहुव्यालसरीसृपम्।
परिक्लेशश्चवो मन्ये ध्रुवं तत्र भविष्यति ।।

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।
किंपुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ।।

ब्राह्मणा ऊचुः।

गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिन ।।

स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते।
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ।।

युधिष्ठिर उवाच।

ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ।।

आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा।
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ।।

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ।।

ब्राह्मणा ऊचुः।

अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।
स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम् ।।

अनुध्यानेन जप्येन विधास्यामः शिव तव।
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ।।

युधिष्ठिर उवाच।

एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह।
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ।।

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः।
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ।।

वैशंपायन उवाच।

इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले ।।

तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः।
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ।।

शोकस्थानसहस्राणि हर्षस्थानशतानि च।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ।।

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।।

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम्।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ।।

`शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः ।।'

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि।
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ।।

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।
आत्मव्यवस्थानकरागीताः श्लोका महात्मना ।।

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।
तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु ।।

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।
दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ।।

तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।
आधिव्याधिप्रशमनं क्रियायोगबलेन तु ।।

मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते।
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ।।

मानसेन हि दुःखेन शरीरमुपतप्यते।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ।।

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।
प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति ।।

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ।।

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ।।

स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ।।

कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत्।
धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत् ।।

विप्रयोगे न तु त्यागी दोषदर्शी समागमे।
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ।।

तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात्।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ।।

ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ।।

रागाभिभूतः पुरुषः कामेन परिकृष्यते।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ।।

तृष्णा हि सर्वपापिष्ठा नित्योद्देगकरी नृणाम्।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ।।

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।
योसौ प्राणान्तिको रोगस्तां तृष्णांत्यजतः सुखम् ।।

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।
विनाशयति भूतानि अयोनिज इवानलः ।।

यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ।।

राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
`अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्'।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ।।

यथा ह्याभिषमाकाशे पक्षिभिः श्वापदैर्भुवि।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ।।

अर्थ एव हि केषांचिदनर्थं भजते नृणाम्।
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः।
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ।।

कार्पण्यं दर्पमानौ च भयमुद्वेग एव च।
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ।।

अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे।
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्

अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः।
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ।।

असन्तोषपरा मूढाः संतोषं यान्ति पण्डिताः।
अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्।
तस्मात्संतोषमेवेह परं पश्यन्ति पण्डितः ।।

अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ।।

त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च।
न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः।
अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते ।।

धर्मार्थं यस्य वित्तेहा वरं तस्य नरीहता।
प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम् ।।

युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि।
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ।।

युधिष्ठिर उवाच।

नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ।।

कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।
भरणं पालनं चापि न कुर्यादनुयायिनाम् ।।

संविभागो हि भूतानां सर्वेषामेव दृश्यते।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ।।

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ।।

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ।।

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम् ।।

अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिवान्धवाः।
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः ।।

आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।
न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत् ।।

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते ।।

विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ।।

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ।।

यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ।।

एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।
तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे ।।

शौनक उवाच।

अहो बत महत्कष्टं विपरीतमिदं जगत्।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ।।

शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु।
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ।।

ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः।
विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः ।।

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।
तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः ।।

मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।
वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ।।

ततः संकल्पवीर्येण कामेन विषयेषुभिः।
विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत् ।।

ततो दारैर्विहारैश्च मोहितश्च यथेप्सया।
महामोहमुखे मग्नो नात्मानमवबुध्यते ।।

एवं पतति संसारे तासुतास्विह योनिषु।
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ।।

ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।
जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः ।।

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ।।

तदिदं वेदवचनं कुरु कर्म त्यजेति च।
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ।।

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।
अलोभ इतिमार्गोऽयं धर्ममस्याष्टविधः स्मृतः ।।

अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ।।

उत्तरो देवयानस्तु सद्भिराचरितः सदा।
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ।।

सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात्।
सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ।।

सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ।।

एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।
रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः ।।

रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ।।

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ।।

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते।
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ।।

सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम्।
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ।।

।। इति श्रीमन्महाभारते अरण्यपर्वणि
किर्मीरवधपर्वणि द्वितीयोऽध्यायः ।। 2 ।।